________________
मध्यमोत्सूत्रिनिदर्शनम्
१०७
वचःप्रयोगादिना तीर्थेन ताडितोऽपि-कटुकभाषादिनाऽऽक्रोशविषयीकृतोऽपि, द्राग-शीघ्र तीर्थमेवाऽवहीलयेत्- अवगणयेत् तीर्थात्पराङ्मुखीभवेत् दूरतस्तीर्थमेव त्यजेदिति यावदित्यक्षरार्थः।
भावार्थस्त्वयं-तीर्थाऽवज्ञापातकभीरुस्तावत्क्वचित्किञ्चिदन्यथा प्रवृत्तः सन् तीर्थेन ताडितस्तीर्थलज्जादिनैव'नाहमित्थं प्रवृत्त' इत्यादिरूपेणाऽनृतमेव ब्र यात्, तज्जनितपातकस्य प्रायश्चित्तं प्रतिपद्य पुनस्तीर्थाऽऽज्ञामेव स्वीकुर्याद्वा, न पुनस्तीथं त्यक्तुं शक्नुयात्। स्थिरोत्सूत्री पुनस्तद्वैपरीत्यात्तीर्थेन ताडितोऽपि अविच्छिन्नपरम्परागतं साध्वादिसमुदायलक्षणं तीर्थ परित्यज्य मर्कटतापनककल्पं मतिकल्पिततीर्थ शरणीकुर्यादित्यर्थः ।
अथ कः कस्मादुत्सूत्रपातकेन गुरुरिति दर्शयन्नेव प्रवचनबाह्यः स्थिरोत्सूत्रीति शास्त्रसम्मत्या प्राहतस्मादेवाऽऽदिकृच्चान्यो, गुरुर्गरुतरः क्रमात् ।
उत्सूत्रकन्दकुद्दाले, तीर्थाऽस्पृक् सोऽप्यनेकभित्॥१०॥ तस्मादेव आदिकृदन्यश्च क्रमाद् गुरुगुरुतरः उत्सूत्रकन्दकुद्दाले तीर्थाऽस्पृग प्रकीर्तित इत्यध्याहार्यमित्यन्वयः। तस्मादेव अवज्ञापूर्वकतीर्थपरित्यागादेव आदिकृदन्यश्चेत्यनन्तरोक्तो द्विधापि स्थिरोत्सूत्री क्रमेण-यथासङ्ख्यमुत्सूत्रपातकेन गुरुमहान् , गुरुतरो महत्तरः, तीथं न स्पृशतीति तीर्थाऽस्मृग-तीर्थाद् दूरदेशवर्ती प्रवचनबाह्य इति यावत् । प्रकीर्तितः, क्व ? उत्सूत्रकन्दकुहाले गुरुतत्त्वप्रदीपापरनाम्नीत्यक्षरार्थः।