________________
१२
षोडशश्लोक्या विनाभाविमोक्षाऽवाप्तिकथनेन तत्त्वज्ञानमुक्तमेव, तश्च तत्त्वार्थश्रद्धानं जनयत्येव, क्षपणादयस्तु प्रवचनबाह्यास्तेषां च कुतो ममताबुद्धिरिति चेत् । मैवं, तत्त्वज्ञानात् खल्वाराध्यत्वेन जैनप्रवचनममताबुद्धरावश्यकत्वात् । अयं भावः-समभावजन्यं हि तत्त्वज्ञानं हेयोपादेयज्ञयवस्तुषु हानोपादानोपेक्षाबुद्धिजनकत्वेनैव सफलं, अन्यथा तत्त्वज्ञानस्यैवाऽभावात् कुतस्तत्त्वार्थ श्रद्धानम् ? । यतस्तत्त्वज्ञानं तावत्प्रमाणात्मकमेव भवति, तस्य च लक्षणं स्वपरव्यवसायात्मकमेव 'स्वपरव्यवसायि ज्ञानं प्रमाण' मितिवचनात् । तस्य च स्वरूपं हेयोपादेयज्ञेयवस्तुषु परिहारस्वीकारो रक्षाक्षमत्वमेव 'अभिमताऽनभिमतवस्तुस्वीकार-तिरस्कारक्षम हि प्रमाण मिति वचनात् । तथा च हेये-नरकादिपातहेतुत्वेनात्मनोऽनर्थकारित्वान्नेदं मदीयमित्यममत्वरूपेण परिहार्य धनधान्यमित्रपुत्रकलत्रकुप्रवचनाद्यनर्थे तावदममत्वरूपेण परिहारबुद्धिः सिद्धा, सिद्धा चोपादेयेऽनन्ताऽऽनन्दसम्पादकत्वेनात्मनोऽर्थकारित्वादाराध्यत्वेनेदं मदीयमिति ममतारूपेण स्वीकारार्ह जिनप्रवचनाद्यर्थे ममत्वरूपेण स्वीकारबुद्धिः, उपेक्षाबुद्धिश्चार्थानर्थकारित्वाभावात् तृणादिषु बोध्येत्येवंरूपेण तत्त्वज्ञानसिद्धौ सिद्धं जिनप्रवचने ममताबुद्धिरेव तत्त्वार्थश्रद्धानमिति। अत एव समभावः समता-तत्त्वबुभुत्सूनां तत्त्वज्ञानहेतुभूतरागद्वेषराहित्यरूपं माध्यस्थ्यं, तेन भावितस्तन्मयीभूत आत्मा येषां ते समभावभावितात्मान इत्यर्थवद्विशेषणविशिष्टा एव नग्नाटादयो मुक्तिभाजो भवन्तीति निगदितम् । एतद्विशे