________________
जघन्योत्सूत्रिदर्शनम्
६१ मेव न भवति, तदभावे च नोपशमादयो भावाः। उक्तं च ( प्रमाणनय ) तत्त्वालोकालङ्कारे-'न सन्त्यस्योपशमप्रभृतयो भावास्तत्त्वार्थश्रद्धानाऽभावा'दिति । उपशमादिभावाऽभावे च स न रागद्वेषविलयः। उक्तं च आगमे'उवसमेण हणे कोहं, माणं महवया जिणे।
मायं चजवभावेण, लोभं संतोसओ जिणे ॥ १॥ [दशवै०] त्ति। तथा च रागद्वेषवन्तमप्युपेक्षावचनवक्तारं प्रति वीतरागत्वेन प्रणयन सिद्धः प्रथमोत्सूत्र्येवेति । ननु निह्नवादीन उत्सूत्रिणो निरीक्ष्य न किमपि मदीयं यातीत्युपेक्षावाग्मी प्रवचने ममताबुद्धिरहितः कथं ?, इति चेत् । उच्यते-प्रवचने ममताबुद्धिमत उपेक्षावचनमेव न सम्भवति । नहि लोकेऽपि चौरादिभिर्धनादिना रिक्तीक्रियमाणं गृहमालोक्य गृहे ममताबुद्धिमान गृहपत्यपत्यं कोऽपि न किमपि मदीयं यातीतिरूपेणोपेक्षावाग्मी भवेत्। किन्तु यथासामयं तद्वित्रासनाद्युपायमेव रचयति। तथाविधक्षेत्रकालादिसामग्र्यभावाच्च मौनमवलम्बमानोऽप्यवसरमासाद्य पुनरुद्यत एव भवेत् तदपहृतधनादिमोचनोपाये इति भावः । ननु प्रवचने ममताबुद्धिरहितस्य तस्य तत्त्वार्थश्रद्धानमेव न भवतीति यदुक्तं, तञ्चायुक्तमेव, प्रवचने ममताबुद्धिरहितानामपि प्रवचनबाह्यानां तत्त्वार्थश्रद्धानश्रवणात्। उक्तं च-'सेअंबरो य आसंबरो य बुद्धो य अहव अन्नो वा।
समभावभाविअप्पा लहइ मुक्खं न संदेहो' ॥२॥ त्ति । अत्र समभावभावितात्मनां दिगम्बरबौद्धादीनामपि तत्त्वज्ञाना