SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ षोडशश्लोक्यां इ वा सुए वा पंडिच्चे इ वा अविबुहमुद्धपरिसामज्झगए सिलाहेज्जा से वि य णं परमाहम्मिएसु उववज्जेज्जा । जह सुमति'त्ति। न ताक्त्तज्जातीयहेतुकां क्वाप्यनर्थोत्पत्तिं दृष्ट्वा तत्दृष्टान्तावष्टम्भेन सर्वक्षेत्रकालाद्यवच्छेदेनाऽसतीमाशङक्याऽपि मौनं कर्त्तव्यम् । नहि शक्रस्तुतिहेतुकमभव्यसुरकृतं श्रीमहावीरोपसर्गमालोक्य तन्निदर्शनेन सर्वत्राऽप्यसदाशङ्कया पुनः शक्तोऽन्यो वा कोऽपि भगवद्गुणनिबद्धकचेता भगवद्गुणग्रामस्तुतौ मौनमाश्रयते, न वा भगवतस्तुतिं कुर्वाणं कश्चित् कश्चिदपि प्रतिषेधति । नहि लोकेऽपि तथाविधजठराग्निसामग्र्यभावात् परमान्नहेतुकव्यथामापन्नं कश्चित् पुरुषं दृष्ट्वा तद्दृष्टान्तेन सर्वैरपि तत्परिह्रियते, इत्यादिदृष्टान्ता लोकसिद्धा अपि चेतसि चिन्त्याः। मौनमपि प्रवचनापेक्षयाऽवगन्तव्यं, नत्वाऽऽत्मा पेक्षया । 'तवापि प्रतिपक्षोऽस्ति, सोऽपि कोपादिविप्लुतः। अनया किंवदन्त्यापि, किं जीवन्ति विवेकिनः' ? ॥ १ ॥ [वीतरागस्तवः ] इति वचनात् । अत्र सूत्रे लोकशब्देन जिनप्रवचनं मदीयमिति प्रवचने ममताबुद्धिमान् सम्यग्दृष्टिसमूहात्मको विवक्षितः। तेन तथाविधं ब्रुवाणं कश्चित्कश्चिदज्ञानी वीतरागोपमया प्रशंसयन्नपि न दोषाय । यतः सोऽप्युपेक्षावचोवक्त्रसदृशत्वात् प्रथमोत्सूत्र्येव गीयते गीतार्थरिति । नन्वयं प्रथमोत्सूत्रिसदृशः कथं ?, इति चेत् । ममताभावेनाङ्गीकारार्हे जैनप्रवचने ममताबुद्धिरहितस्य तस्य तत्त्वार्थश्रद्धान
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy