________________
जघन्योत्सूत्रिनिदर्शनम्
८६
कत्वेन सम्यक्त्वशुद्धिर्भवत्येव । उपेक्षावचने तु तन्मतवृद्धिरेव । यत उपेक्षावचनमाकर्ण्य बालादयो जना जानन्ति - यद्ययं मार्गः केनाऽपि न दूष्यते, तद्य यमपि मार्गः सत्य एव । अतस्तन्मार्गाश्रयणमस्माकं श्रेय एवेति निश्चित्य तन्मार्गानुगामिनो भवन्ति । तथा च तन्मतवृद्धिस्तद्वृद्धौ च प्रवचनस्याहितमेवेति स्वयमे - वाऽऽलोच्यम् । यच्चोक्तं प्रत्युत द्वेषिण एव भवन्ति, तदप्यसारं, तादृगद्वेषस्य विदुषां चेतस्यकिश्चत्करत्वात् । नहि तादृग्द्वेषेण जगज्जन्तुकरुणारसार्द्रीकृतचेतस्काश्चतुरचेतसस्तदुपेक्षापराया भवन्ति । नहि कटुकाद्यौषधप्रयोगेण रोगातुराणामप्रीतेरि[री] त्युपेक्षाद्युपहतचेतोवृत्तयः सवैद्या भवन्तीति । ननु वयं सुहृद्भावेन पृच्छामः- यदि कदाचित्तथाविधवचः प्रयोगेण प्रवचनेऽनर्थोत्पत्तिर्भवति तदा किं कर्त्तव्यं ? इति चेत् । सत्यं तथाविधक्षेत्रकालादिसामग्रीवशात् तद्धेतुकाऽनर्थोत्पत्तिर्भाविनी यदि नियमेन स्वज्ञानविषयीभवेत्, तर्हि तत्क्षेत्रकालाद्यवच्छेदेन मौनमेव कर्त्तव्यं, नतूपेक्षावचनवता भाव्यं । उपेक्षावचनं हि निह्नवं प्रत्यनुकूलभाषणं तच प्रवचने निषिद्धमेव । उक्तं च श्रीमहानिशीथे
2
'जे भिक्खु वा भिक्खुणी वा परपासंडीणं पसंसं करेजा, जे आवि निह्नगाणं पसंसं करेज्जा, जे आवि निहगाणं अणुकूलं भासेज्जा, जेआवि निह्नगाणं आययणं पविसिज्जा, जे आवि निगाणं गंथं सत्यं पयं अक्खरं वा परूवेज्जा, जेणं निह्नगाणं संतिए कायकिलेसाइए तवे इ वा संजमे इ वा नाणे इ वा विण्णाणे