________________
षोडशश्लोक्यां
हि ब्रुवाणस्य शेषबलाभावेऽपि वाग्बलस्याऽवश्यं सिद्धत्वेनाऽमी प्रवचनद्वेषिणो ऽनन्तसंसारहेतवश्चेत्याद्युल्लेखेन साध्वादिप्रत्यनीकादिनिवारकोऽवश्यं वाक्प्रयोगः कर्त्तव्य एवेति कुत उपेक्षावचनस्यौचित्यं ? तथा च बोम्बले सत्यपि न किमपि मदीयं यातीत्याद्युपेक्षावचनं प्रवचनविरुद्धमिति सिद्धमुपेक्षावचनंवक्तुरुत्सूत्रमिति । यत्तु केचिदमी प्रवचनद्वेषिणोऽनन्तेत्यादिवचोमात्रेण साध्वाद्याहितनिवारणं कुतः ? प्रत्युत द्वेषिण एव कृता भवन्तीति वदन्ति । ते गम्भीरप्रवचन रहस्यानभिज्ञा एव अवगन्तव्याः । यतः शेषवलाऽभावेऽपि तादृग्वचः प्रयोगं कुर्वता तेन तत्साध्यसाध्वाद्य हितनिवारणं कृतमेव । किञ्च - शेषबलापेक्षया वाग्बलस्य गरीयस्त्वात्प्रवचनस्य महानुपकारोऽपि । तत्कथं ? इति चेत् । शृणु-अमी उत्सूत्रिणः प्रवचनद्व पिणोऽनन्तसंसारिणोऽनन्तसंसारहेतवश्च त्याज्या इत्यादिवाग्विलासेन पूत्कुर्वता प्रवचनभक्तेन ते निह्नवादय आबालगोपालाङ्गनानामपि प्रतीतिविषयीकृता भवन्ति । तथा च बालगोपालाङ्गनादयस्तद्वचनचकिताः सावधानीभूतास्तन्मार्गावलम्बिनो न भवम्ति, तन्मताऽऽश्रयणाऽभावे च न तन्मतवृद्धिः, तद्वृद्धद्यभावे च साध्वादीनां हितमेव, हितं चाहितनिवारणव्याप्तमेवेति सिद्धमहित निवारणं, महाँश्च प्रवचनोपकारोऽपि । स्तेनाद्याकुलितमागं यथावत् ज्ञात्वा बहुजनानां पुरस्तात् पूत्कुर्वाणो बहुजनोपकारी भवतीत्यलं विस्तरेण । यद्यपि कदाचिदनादेयवचनात् कस्यचित्तथाविधलाभो न भवति, तथापि प्रवचनभक्तेरावश्य
८८