________________
जघन्योत्सूत्रिनिदर्शनम्
अथ त्रिधाऽप्युत्सूत्रं तत्स्वामिद्वारा दिदर्शयिषुराद्योत्सूत्रिणः
स्वरूपं श्लोकस्य पूर्वार्द्धन दर्शयन्नाह - तत्राऽऽद्योऽवेत्य तान् लोके, किं ममेति विगीतवाक् ।
ভে
व्या० - तत्र तानवेत्य किं ममेति विगीतवाक् आद्य उत्सूत्री ज्ञातव्य इति पूर्वार्द्धस्यान्वयः । तत्र जघन्यमध्यमोत्कृष्टोत्सूत्रिषु आद्य उत्सूत्री - जघन्योत्सूत्री कः ? यस्तान् - प्रसिद्धोत्सूत्रि
ह्निवादीन, अवेत्य-ज्ञात्वा किं मम स्यात्, न किमपि मदीयं यातीत्युल्लेखेन लोके - सम्यग्दग्लोके 'विगीतवाक्,' विगीतानिन्द्या वाक्-वाणी यस्य स विगीतवाक्-निन्दितं ब्रत इत्यर्थः । स जघन्योत्सूत्री ज्ञेय इत्यक्षरार्थः ।
भावार्थस्त्वयं यः कश्चित् वराको निह्रवादीन् उत्सूत्रिणो ज्ञात्वा य एव तावदुत्सूत्रिणस्त एव दुःखभाजो भविष्यन्ति, मदीयं किमपि यातीति चेतसि कुविकल्प्य 'न किमपि मदीयं याती'ति सम्यग्दृग्लोके निन्दितं ब्रूते, स प्रवचनानु-कम्पारहितो जघन्योत्सूत्री ज्ञेयः । प्रवचनविरुद्ध भाषकत्वं चास्य, प्रवचनपीडाकारिणो निह्नवादीन् ज्ञात्वोपेक्षावचनस्य प्रवचने निषिद्धत्वात् । उक्तं च
'साहूण चेइयाण य पडिणीयं तह अवन्नवायं च ।
जिणपवयणस्स अहियं सव्वत्थामेण वारेति ॥ १॥ त्ति [उप०: माला ] । नन्वत्र साध्वादिप्रत्यनीकाः सर्वबलेन निवारणीया
"
"
इत्युक्तं तच्च युक्तमेव परं तथाविधबलाभावे तूपेक्षावचनस्यै-: वोचितत्वात् स उत्सूत्री कथं स्यात् ? । उच्यते - उपेक्षावचनं :