________________
षोडशश्लोक्यां ____ अथोत्सूत्रभाषिण इत्यत्र यदुत्सूत्रमुक्तं, तत्कस्य ज्ञानविषयो भवतीति दर्शयन् सप्रभेदं विभजंश्चाहउत्सूत्रं तत्रिधा वक्ष्ये, जघन्यादिकभेदतः । तत्यागोत्सुकमेधावि-मेधाऽऽदर्शकसङ क्रमम् ॥ ४॥
व्या०-तत्त्यागोत्सुकमेधाविमेधाऽऽदर्शकसक्रम तदुत्सूत्रं जघन्यादिकभेदतस्त्रिधा वक्ष्ये इत्यन्वयः। 'उत्सूत्रभाषिण'इत्यत्र विशेषणद्वारा यत्प्रागुत्सूत्रमुक्तं, तत्त्रिधा-त्रिविधं वक्ष्ये वाग्गोचरीकरिष्ये, त्रिधा कुतः ?, 'जघन्यादिकभेदतः'। जघन्यमादिर्येषां तानि जघन्यादिकानि-जघन्यमध्यमोत्कृष्टानि, तान्येव भेदास्ततः। किम्भूतं त्रिधाऽप्युत्सूत्रं ?, 'तत्त्यागे'त्यादि, तस्योत्सूत्रस्य त्यागस्तत्त्यागस्तत्रोत्सुका-उद्यताः, मेधाविनः पण्डितास्तेषां या मेधा-धारणक्षमा बुद्धिः सैवाऽऽदों-दर्पणस्तत्र सङक्रमः-सङ्क्रान्तिर्यस्य तत्तदित्यक्षरार्थः। भावार्थस्त्वयं-जघन्यमध्यमोत्कृष्टभेदतस्त्रिधाऽपि वक्ष्यमाणमुत्सूत्रोद्भवभवकूपपातभीरुतया उत्सूत्रपरिहारे समुत्सुका ये पण्डितास्तेषामेव ज्ञानविषयो भवति, न पुनरुत्सूत्रोद्भवकटुकविपाकाऽनभिज्ञपुरुषाणामपीति । विस्मरणशीलबुद्धेविषयीभूतमप्युत्सूत्रं सच्छिद्रघटजलवद्विवक्षितफलवन्न भवतीतिज्ञापनार्थ मेधापदोपादानम् । मेधाशब्देन धारणक्षमा बुद्धिरुच्यते। “सा मेधा धारणक्षमे तिवचनात् । 'तत्त्यागोत्सुके'तिपदं छाद्मस्थिकज्ञानमनन्यचेतसा प्रयुक्तं सत् सम्यग्वस्तुपरिच्छेदक, नान्यथेति हेतोरुत्सूत्रपरिहारोपेक्षापरायणानां त्रिधाऽप्युत्सूत्रबुद्धिषिषयो न भवतीतिज्ञापनार्थमिति ।