________________
जघन्योत्सूत्रिनिदर्शनम् 'प्राणप्रवेशे वहनाडिपादं, कृत्वा पुरो दक्षिणमर्कबिम्बम् ।
प्रदक्षिणीकृत्य जिनं च याने, विनाप्यहःशुद्धिमुशन्ति सिद्धि' मिति ॥ १॥ अयं भावः-यथा ज्योतिःशास्त्रप्रसिद्धकुयोगादशुभभावमापन्नास्तिथिवारनक्षत्रग्रहाश्चिकीर्षितकार्याभिमतदिनशुद्धयभावहेतवः सन्तोऽपि जिनपतिप्रतिमाप्रदक्षिणाद्युपचारेण शुभीभवन्ति, तथा भस्मनामा दुर्घहोऽपि भगवद्भक्त्युन्नतचेतसां प्रवचनाऽनुकम्पकप्रवृत्तिमतां तथाविधप्रयत्नोपचारेण शुभीभवति। तथा च 'कारणाऽभावे कार्यस्याप्यभाव इति म्यायात् अशुभग्रहहेतुकानां प्रवचनपीडाकारिणामुत्सुत्रभाषिकण्टकानां कुण्ठिताऽऽस्यीकरणं भवत्येवेति प्रयाससाफल्य मिति । या च साम्प्रतीनतीर्थस्याऽवश्यम्भाविनी पीडा, सा तूत्सूत्रभाषिणामुत्पत्तिमात्रेणापि सिद्धैवेति न किञ्चिदनुपपन्नमिति । अथाऽस्य ग्रन्थस्य षोडशश्लोकी गुरुतत्त्वप्रदीपदीपिका चेति नामद्वयी। तस्याः सान्वर्थत्वं त्वेवं-षोडशानां श्लोकानां समाहार इति व्युत्पत्त्या षोडशश्लोकशरीरात्मकत्वेन षोडशश्लोकी, गुरुतत्त्वप्रदीपनाम्नो ग्रन्थस्य दीपिकेव गुरुतत्त्वप्रदीपदीपिका, गुरुतत्त्वप्रदीपस्योत्सूत्रकन्दकुद्दालाऽपरपर्यायस्याऽऽधारभूतेत्यर्थः। अयं भावः-यथा तैजसः प्रदीपो वातादिविघ्ननिवारिकायां गृहान्तर्वतिदीपिकायां स्थितो निर्विघ्नं वेश्म प्रकाशयति, तथा गुरुतत्त्वप्रदीपनामापि यो ग्रन्थः, स षोडशश्लोकीरूपदीपिकायां स्थितः षोडशश्लोक्या संयुक्तः दुर्जनवचनवातादिविनरहितो गुरुतत्त्वं वेश्म प्रकाशयतीत्यभिधेयाभिधायकश्लोकस्य भावार्थः । तथा च व्याख्यातं त्रिभिर्विशेषकमिति ॥ १-२-३ ॥