________________
षोडशश्लोक्या पवत्तई। जया णं से खुदाए भासरासी जम्मनक्खत्ताओ विइक्कते भविस्सइ, तया णं समणाणं निगंथाणं निग्गंथीण य उदिओदिए पूयासकारे भविस्सइ'त्ति । इति हेतुसूचकश्लोकस्य भावार्थः। ___ अथाऽभिधेयाभिधायकश्लोकस्यायं भावः-यथाऽन्येऽपि कण्टका वस्त्रादौ विलग्ना वस्त्रादेः पृथककृत्य कुण्ठिताऽऽस्यीकृतास्सन्तः शक्तिरहितत्वात् पुनः पीडापराङमुखीभवन्ति, तथाऽमी अपि। प्रमेयं तावदत्र ग्रन्थे-उत्सूत्रभाषिकण्टकानामुद्धारपूर्वकं कुण्ठिताऽऽस्यीकरणमेवेति। ननु उत्सूत्रभाषिणः कण्टकैरुपमिताः, कण्टकानां ह युद्धारस्तावद्वस्त्रादौ विलग्नानामेक सम्भवति, कुण्ठिताऽऽस्यीकरणं तु लमालग्नसाधारणमिति तत्कथं कण्टकरुपमेति चेत् । उच्यते-वस्त्रादौ लग्नत्वं तावत्तेषां कुयुक्तिमादाय वादायोद्यतत्वम्, तदुद्धारस्तु सुयुक्त्या कुयुक्तेनिराकरणं, कुण्ठिताऽऽस्यीकरणं तु एते उत्सूत्रभाषिण इति जनेभ्यो ज्ञापनं, तच्च साधारणमेवेति । 'क्रियाऽन्वयि पदं प्रधान'मितिन्यायात् कण्टकानां पुनः पीडापराङ्मुखत्वस्यैव प्राधान्यज्ञापनार्थ 'पुनः पीडापराङ्मुख'मिति क्रियाविशेषणमिति । ननु तीर्थबाधाकारिणामुत्पत्तिर्भस्मराशिकुग्रहयोगादेवेति प्रागुक्तम् । तस्य चैकत्र राशौ द्वे वर्षसहस्रे स्थितिः। अतो वर्षसहस्रद्वयं यावत्प्रबचनपीडाया अवश्यम्भावात् प्रयासमात्रतैव भवत्प्रयासस्येति चेत् । मेवं, यतोऽशुभग्रहस्याप्युपचारेण शुभीकरणात् तद्धतुकपीडाकारिणां पीडापराङ्मुखीकरणं भवत्येव । उक्तं च