________________
जघन्योत्सूत्रिनिदर्शनम् _ 'न विश्वसेत्पूर्वविरोधितस्य, शत्रोश्च मित्रत्वमुपागतस्य । - दग्धां गुहां पश्य उलूकपूर्णा, काकप्रणीतेन हुताशनेन' ॥१॥ इति । आपद्विधायकानामुदयोऽशुभकर्मोदयहेतु-कुग्रहयोगाभवतीतिज्ञापनाय 'श्रीवीरे'त्यादिपञ्चम्यन्तम् । ननु श्रीवीरजन्मनक्षत्रसङ्क्रान्तो भस्मराशिनामा दुर्ग्रहः श्रीवीरस्य पीडाकारी भवतु, परं तत्तीर्थस्य कथं ? इति. चेत्, उच्यते-यथा समर्थपृथिवीपतिं प्रति पीडां कर्त्तमप्रभविष्णुः प्रत्यर्थी तद्देशनिवासीभ्येभ्यपुत्रादीनामेव पीडाकारी भवति, तथाऽयमपि भगवन्तं प्रत्यसमर्थस्तदाऽऽज्ञावर्तितदभीष्टस्य तीर्थस्य पीडाकारीति । भगवन्तं प्रत्यसमर्थस्तु निर्वाणसमये जन्मनक्षत्रसक्रान्तत्वेन विद्यमाने भगवति क्षणमात्रमपि तद्राशिभोगानवाप्तेः। अत एव तीर्थमोहमोहितेन शक्रण आयुर्वृद्धिकृते विज्ञप्तोऽपि भंगवानुवाच-भो शक्र ! त्रुटितमायुः केनापि सन्धातुं न शक्यते, मत्तीर्थस्य चाऽवश्यम्भाविनी पीडा। अत एव द्वे वर्षे सहस्रे यावत् साधुसाध्वीनामुदितोदितः पूजासत्कारोऽपि न भवतीति। उक्तं च श्रीकल्पसूत्रे___जं रयणिं च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे, तं रयणिं च खुदाए भासरासीनाम महग्गहे दोवाससहस्स ठिई समणस्स भगवओ महावीररस जम्मनक्खत्तं संकते । जप्पभिइं च णं से खुद्दाए भासरासी महग्गहे दो वाससहस्सठिई समणस्स भगवओ महावीरस्स जन्मनक्खत्तं संकंते, तप्पभिई च णं समणाणं निग्गंथाणं निग्गथीण य नोदिओदिए पूयासक्कारे