________________
षोडशश्लोक्वां
नमस्कृतत्वेन सिद्धः । तथा च सिद्धं मूलातिशयचतुष्टयमपीति । “यो यदर्थे समर्थः स तदर्थ निमन्त्र्य' इति न्यायात् उत्सूत्रविच्छेदस्यैव प्रकृतत्वेन प्रकृते उत्सूत्रविच्छेदोद्यता एवाऽन्येऽपि नमस्कार्याः, अत उत्तरार्द्धनोत्सूत्रविच्छेदोद्यतानामेव बहुश्रुतानां नमस्कृतिः। कालत्रयवर्तिबहुश्रुतग्रहणार्थ 'सर्वानि'ति विशेषणम् । बहुश्रुतपदं तु उत्सूत्रविच्छेदोद्यता अपि बहुश्रुतत्वमन्तरेण विफलप्रयासा भवन्तीति तद्व्यवच्छेदार्थ ज्ञेयम् । बहुश्रुता अपि केचित् तथाविधप्रवचनाऽनुकम्पारहिता उत्सूत्रविच्छेदेऽनुद्यता अपि भवन्तीत्यतस्तव्यवच्छेदार्थ 'उत्सूत्रविच्छेदत्यक्ताऽऽलस्या'निति विशेषणमिति मङ्गलार्थमभिमतदेवतादिनमस्कृतिरूपश्लोकस्य भावार्थः ।
अथ प्रतिज्ञायां सहेतुकग्रन्थाभिधेयमिति यदुक्तं, तत्र द्वितीयश्लोके हेतुसूचकत्वं त्वेवं-उत्सूत्रभाषिणः कण्टकान् कुण्ठिताऽsस्यान् विधास्ये'तत्कुत ? इति विशेषणद्वारा हेतुमाह-उत्सूत्रभाषिणः किम्भूतान् ? तीर्थाधिपत्यभीष्टस्य तीर्थस्याऽऽपद्विधायकान्, यतस्ते तथाभूतस्य तीर्थस्याऽऽपद्विधायकास्तत इत्यर्थः । लोकेऽपि शक्तौ सत्यां स्वस्य व्यथाकारिणः शक्तिरिक्ताः कर्त्तव्याः शक्त्यभावे च तत्सम्पर्कस्त्याज्यः ।
उक्तं च-कण्टकानां खलानां च, द्विविधैव प्रतिक्रिया। उपानमुखभङ्गो वा, दूरतो वा विसर्जनम् ॥ २ ॥ एवं मैत्रीभावमापन्नस्यापि दस्योविश्वासो न युक्तः । उक्तं च