________________
८१
जघन्योत्सूत्रिनिदर्शनम्
मानतीर्थाधिपतित्वेन बुद्ध्यारूढः श्रीमहावीरस्तस्याभीष्टं वल्लभं पूज्यत्वेनाभिमतं वा तस्येति । उत्सूत्रभाषिणः कण्टकास्तीर्थस्याss पद्विधायकास्तत्कुतः ? श्रीवीरजन्मनक्षत्रसङ्क्रान्तभस्मदुर्ग्रहात् । श्रीवीरस्य जन्मनक्षत्रमुत्तराफाल्गुनी, तस्यां सङ्क्रान्तो निर्वाणसमये तया संयुक्तो, भस्म इति पदैकदेशे पदसमुदायोपचाराद्भस्मराशिः, स एव दुर्प्रहो - दुष्टग्रहः- क्रूर ग्रहस्तस्मात्, ततः तीर्थादुद्धृत्य - अर्थात तीर्थमनुलग्नाः कण्टका इव कण्टकास्तान् पृथक्कृत्वा इमान - अध्यक्ष सिद्धानहं कीदृशान् विधास्ये निष्पादयिष्यामि ?, कुण्ठिताऽऽस्यान्, कुण्ठितं - कुण्ठीकृतमुत्सूत्र भाषणादिलक्षणान् स्वव्यापारान्प्रत्यसमर्थीकृतमास्यं मुखं येषां ते तान् विधास्ये । कथं ? पुनः पीडायां पराङ्मुखाः पुनः पीडां कर्तुमशक्ता - अक्षमा यथा भवन्तीति क्रियाविशेषणमेतदित्यक्षरार्थः ।
भावार्थस्त्वयं ज्ञानादिगुणैः समानत्वेऽपि नाभेयादीन् विहाय श्रीमहावीरस्य नमस्कारो वर्त्तमानतीर्थाधिपतित्वेनाऽऽसन्नोपकारित्वादेव । श्रीमदितिविशेषणेन सामान्यकेवलित्वनिरासः, सामान्यकेवलिनां चतुस्त्रिंशदतिशयलक्षणश्रियोऽसद्भावात् । उत्सूत्रविच्छेदस्यैव प्रकृतत्वेनोत्सूत्रविच्छेदे पूजाज्ञानाऽपायापगम-वचनलक्षणानां चतुर्णा मूलातिशयानां मध्ये वचनातिशयस्यैव प्राधान्यज्ञापनार्थं तत्त्वातत्त्वविवेकिनमितिविशेषणेन स्तुतिद्वारा भगवान् विशेषितः । यद्वा वचनातिशये सति ज्ञानातिशयस्तत्कारणत्वात् सिद्धः । सिद्धश्चाऽवश्यतत्कार्यत्वात्पूजातिशयोऽपि, अपायापगमातिशयस्तु प्रकृते तदर्थमेव