________________
षोडशश्लोकी व्या०-तत्त्वातत्त्वविवेकिन श्रीमद्वीरजिनं उत्सूत्रविच्छेदत्यक्ताऽऽलस्यान् बहुश्रुतांश्च नत्वा-प्रणम्य, तीर्थाधिपत्यभीष्टस्य तीर्थस्याऽऽपविधायकान् इमान् वक्ष्यमाणान् विद्यमानसन्तान द्वाराऽध्यक्षान् वा उत्सूत्रभाषिणः कण्टकान् ततः तीर्थादुद्धृत्य पुनः पीडापराङ्मुखं यथा स्यात् तथा कुण्ठिताऽऽस्यान् अहं विधास्ये इत्यन्वयः स्वयं योज्यः। श्रीः-चतुस्त्रिंशदतिशयलक्षणा सा विद्यते यस्य स श्रीमान्, विशेषेणेरयति-प्रेरयत्यष्टप्रकारं कर्म यः स वीरः, रागादिजेतृत्वाज्जिनः, वीरश्चासौ जिनश्च वीरजिनः, श्रीमांश्चासौ वीरजिनश्च श्रीमद्वीरजिनःचरमतीर्थकृदित्यर्थः। तं किंभूतं ?, तत्त्वातत्त्वविवेकिन, तत्त्वंरजतत्वादिमत्सु रजतादिषु रजतत्वादिमत्त्वं वस्तुनो याथार्थ्य च अरजतत्वादिमत्सु शुक्तिकादिषु रजतत्वादिमत्त्वं वस्तुनोऽयाथायं ते विवेक्तुं शीलमस्येति शीलार्थे इन् विधानात् तत्त्वातत्वविवेकिनं, च पुनरर्थे, बहु-प्रचुरं, श्रुतं-श्रुतज्ञानं, येषां ते तान्, किम्भूतान् ? सर्वान्-सकलान्, पुनः किम्भूतान् ? उत्सूत्रस्यजिनप्रवचनविरुद्धवचनस्य, विच्छेदो-विनाशो विच्छेदकत्वमिति यावत् । तत्र त्यक्तं परिहृतमालस्यमुद्यमराहित्यमुपेक्षेति यावद् यैस्ते तान्, उत्सूत्रं-जिनप्रवचनविरुद्धम् भाषितं शीलमस्येत्युत्सूत्रभाषिणस्तान्, किम्भूतान् ? आपद्विधायकान्, आपदःपीडाया विधायका-निष्पादका कतृत्वेन हेतव इतियावत् । कस्य ? तीर्थस्य-तीर्यते संसारोऽस्मिन् अस्माद्वा तत्तीर्थ-साधुसाध्वीश्रावकश्राविकासमुदायलक्षणम्, तस्येति । किम्भूतस्य तीर्थस्य ? तीर्थाधिपत्यभीष्टस्य, तीर्थाधिपतिस्तीर्थकृत्, स च वर्त्त