________________
ॐ नमो जिनाय । आगमोद्धारक-आचार्यप्रवर श्रीआनन्दसागरसूरीश्वरेभ्यो नमः । महोपाध्याय-श्रीधर्मसागरगणिप्रवरप्रणीता स्वोपज्ञविवरणविभूषिता
गुरुतत्त्वप्रदीपदीपिकाऽपरनाम्नी
षोडश-श्लोकी। प्रणम्याऽऽत्मविदं वीरं, ज्ञानसक्रान्तविष्टपम् । श्रीमद्विजयदानाह्वान्, सूरीशान् सद्गुरून पुनः ॥ १ ॥ व्याकुर्वे षोडशश्लोकी, स्वोपज्ञामज्ञतापहाम् । गुरुतत्वप्रदीपस्य, दीपिकां कृतधीमताम् ॥ २ ॥ युग्मम्।। ___ इह तावद् निर्विघ्नसमाप्तिहेतु-स्वाभिमतदेवतानमस्कृतिपूर्वकं सहेतुकग्रन्थाभिधेयमाविष्कुर्वस्त्रिभिर्विशेषकमाहश्रीमद्वीरजिनं नत्वा, तत्वाऽतच्वविवेकिनम् । सर्वांश्चोत्सूत्रविच्छेद-त्यक्ताऽऽलस्यान् बहुश्रुतान् ॥ १॥ श्रीवीरजन्मनक्षत्र-सङ्क तीर्थाधिपत्यभीष्टस्य, तीर्थस्याऽऽपद्विधायकान् ॥ २ ॥ उद्धत्य तत उत्सूत्र-भाषिणः कण्टकानिमान् । कुण्ठितास्यान् विधास्येऽहं पुनःपीड़ापराङ मुखम् ॥ ३॥
त्रिभिर्विशेषकम्