________________
जघन्योत्सूत्रिनिदर्शनम्
षणेन द्रव्यतोऽन्यतीर्थिका अपि द्रव्यस्याप्राधान्याद् भावतो जिनोक्ततत्त्वार्थश्रद्धानभाज एव मुक्तिभाजो भवन्तीति भावस्य प्राधान्यं सूचितं, प्रवचने भावस्यैव प्राधान्यात् । अत एव सुसाधु-श्रावक-संविग्नपाक्षिकास्त्रयोऽपि भावतो जिनोक्ततत्त्वार्थश्रद्धानादेव मुक्तिपथगामिनः । शेषाश्च गृहिलिङ्ग-कुलिङ्ग-द्रव्यलिङ्गधारिणस्त्रयोऽपि मिथ्यादृष्टयः संसारपथगामिनः ।
उक्तं च-सावज्जजोग-परिवज्जणाई सव्वुत्तमो जईधम्मो। बीओ सावगधम्मो तइओ संविग्गपक्खपहो ॥१॥ सेसा मिच्छद्दिट्ठी गिहिलिंग-कुलिंग-दव्वलिंगेहिं । जहा तिन्नि य मुक्खपहा संसारपहा तहा तिन्नि ।।२।। संसारसागरमिणं परिब्भमंतेहिं सव्वजीवेहिं । गहियाणि य मुक्काणि य अणंतसो दब्वलिंगाई॥३॥ [उप०माला] इति । अत्र मिथ्यादृष्टिकुलिंगग्रहणात् सम्यग्दृष्टिकुलिङ्गी तावदम्बडवत् श्रावकेऽन्तर्भवतीति बोध्यम् । ननु किं तत्त्वज्ञानस्याहेतुभूतं रागद्वेषसाहित्यरूपमप्यन्यत् किश्चिन्माध्यस्थ्यमस्ति ?, येन तत्त्वज्ञानहेतुभूतेत्यादिविशेषणाऽन्वितं माध्यस्थ्यमुक्तमिति चेद् । अस्त्येव, तथाहि-रागद्वेषयोर्मध्ये तिष्ठतीति व्युत्पत्त्या मध्यस्थोद्विविधः । उक्तं चोत्सूत्रकन्दकुद्दालापरपर्याये गुरुतत्त्वप्रदीपे
'यद्रागद्वेषयोमध्ये, तिष्ठतीत्युच्यते बुधैः । मध्यस्थः स द्विधातु स्यान् मिथश्च बृहदन्तरः ॥३।। अस्य वृत्तिः-यत्-यस्मात् कारणात्, रागद्वेषयोर्मध्येऽन्तस्तिष्ठति-विद्यते इत्यनेन कारणेन बुधैविद्वद्भिर्मध्यस्थ उच्यते-भण्यते, तु-पुनः स मध्यस्थो द्विधा-वक्ष्य