________________
१४
षोडशश्लोक्य
माणनीत्या द्विप्रकारः, स्याद्-भवेत्, मध्यस्थस्य द्वौ भेदौ स्यातामित्यर्थः । स द्विप्रकारः कथम्भूतो ? मिथः-परस्परं, बृहदन्तरोमोक्षसंसारवन्महाऽन्तरः इति । मध्यस्थस्य भावो माध्यस्थ्यं । तदपि स्वामिभेदाद् द्विविधम् । तत्राद्यं माध्यस्थ्यं तस्यैव स्याद्यो यथावद्वस्तुस्वरूपं विचिन्तयन् किश्चिदपि पक्षमकक्षीकृत्य नरागं वा द्वेषं स्पृशेत्, किन्तु वामदक्षिणपार्श्ववर्तिनौ रागद्वेषावस्पृशन्नेव तयोरन्तरालस्थितः सन् वस्तुतत्त्वं यथावद्विचारयेत् । उक्तं च उत्सूत्रकन्दकुद्दाला०
'आद्यो न रागं न द्वेषं, स्पृशेत्तत्त्वं विचिन्तयन् । उच्यतेऽतस्तयोर्मध्ये, तदभावमये स्थितः ॥४॥ अस्य वृत्तिः-आद्यः-प्रथममध्यस्थस्तत्त्वं-देवगुरुधर्मलक्षणम्, विचिन्तयन्-विमृशन् न रागं स्पृशेत, न द्वेषं स्पृशेत्, अतः-अस्मात्कारणात् तयो-रागद्वेषयोर्मध्येऽन्तराले स्थित उच्यते । कथम्भूते मध्ये ? तदभावमये, तयोरागद्वेषयोरभावोऽसत्ता, तन्मयं तद्रूपं यत्तस्मिन् रागद्वेषाऽसत्तारूपे इत्यर्थः। किमुक्तं भवति-वामदक्षिणयोः पार्श्वयोः स्थितौ रागद्वेषौ संत्यज्यान्तरालस्थित एवासौ तत्त्वं विचिन्तयेदिति मध्यस्थो भण्यते । आद्यमध्यस्थस्य स्वरूपं चेदं-रागद्वेषराहित्यरूपसमताभावेन सम्यग्वस्तुपरीक्षणम् । ततश्च तत्त्वज्ञानं । तत्त्वज्ञानाञ्च हरिहरादिकुदेवादेर्देवत्वादिना श्रद्धानुरूपमतत्त्वं परित्यज्याऽहंदादिदेवादेर्देवत्वादिना श्रद्धानरूपं तत्त्वमेवाश्रयेत् उक्तं च उत्सूत्र०-अतत्त्वविषमुत्सृज्य, तत्त्वाऽमृतमसौ श्रयेत् । _ विवेकी शुक्लपक्षश्च, राजहंस इवामलः ॥५॥ अस्य वृत्तिः