________________
जघन्योत्सूत्रिनिदर्शनम् पूर्वाद्धं स्पष्टम् । विवेचन विवेकः, स विद्यते यस्यासौ विवेकी तथा शुक्लपक्षः-सम्यग्दृष्टिरागमभाषया शुक्लपाक्षिको भण्यते, राजहंस इव निर्मलः। सम्यग्दृष्टिपक्षे मलम्-पापं । राजहंसोऽपि विषम्-पानीयमुत्सृज्य अमृतं-दुग्धमाश्रयेत् । सोऽपि विवेकी भवेत् , शुक्लपक्षश्च-श्वेतपक्षश्च । एवं द्वितीयमाध्यस्थ्यमपि तस्यैव ज्ञेयम्, यो वस्तुतत्त्वं विचिन्तयन न रोगं नवा द्वेषम् त्यजेत्, किन्तु प्रथमतः कुपक्षं कक्षीकृत्य रागद्वेषाऽऽवृतत्वेन रोगद्वेषौ स्पृशन्नेव तन्मध्यस्थितो वस्तुतत्त्वं विचारयेत् । उक्तंच
गुरुत-द्वितीयो न त्यजेद्राग-द्वषो तत्त्वं विचिन्तयन्।
उच्यतेऽतस्तयोर्मध्ये, तत्स्वरूपमये स्थितः ॥६।। अस्य वृत्तिःस्पष्टः । नवरं-यत्रैव रागद्वेषौ तत्रैवास्यावस्थानमतस्तत्स्वरूपमयेरागद्वेषस्वरूपमये मध्ये स्थितोऽसौ भण्यते । द्वितीयमध्यस्थस्यच स्वरूपमिदं-रागद्वेषसाहित्यरूपमाध्यस्थ्येन सम्यगवस्तुपरीक्षणम् न भवति, तस्माच्च न तत्त्वज्ञानं, तत्त्वज्ञानाभावे च प्रागुक्ततत्त्वं परित्यज्यातत्त्वमेवासौ श्रयेद् । उक्तं च-उत्सूत्र
कुपक्षोऽयं विवेक्तुं न, क्षमः खिन्नो विलक्षधीः।
मध्यस्थोऽहमिति क्लप्त-विकल्पोऽतत्त्वमाश्रयेत् ।।७।। अस्य वृत्तिः-अयं-असौ रागद्वेषमये मध्ये स्थितः कुपक्षः पूर्णिमीयकादिः, विवेक्तुं-तत्त्वातत्त्वे पृथक्कतु न क्षमो-समर्थोभवेत् । अत एव खिन्नः-खेदमापन्नो, यत एव खिन्नस्तत एव विलक्षधीः, विलक्षा-लक्षरहिता धी:-बुद्धिर्यस्याऽसौ विलक्षधीरतत्त्वं-पूर्णिमादेश्चतुर्दश्यादेश्च सामाचारीमाश्रयेत, उभयाऽऽ