________________
६६
षोडशश्लोक्या
चारवान् भवेदित्यर्थः । किंविशिष्टो ? मध्यस्थोऽहमिति क्लमविकल्प:- अहं मध्यस्थ इत्यमुना प्रकारेण क्लृप्तः - स्वचेतसि विरचितो, विकल्पः सन्देहो, येन स यतो लौकिको लोकोत्तरो वा मिध्यादृष्टिर्विपरीतं विश्वस्वरूपं प्रवाहपतित एव श्रद्दधाति । प्रवाहश्रयणं च सन्देहरूपमेव । यतोऽसौ निजमनस्सन्देहे भाण्डागारित एव लोकप्रवाहं तत्त्वबुद्ध्यांगीकृत्य विश्वस्वरूपं विपर्ययावबोधेन स्वचेतसि निश्चिनोति । अतो लोकप्रवाहस्य गतानुगतिकत्वेनातत्त्वरूपतया तदपेक्षो निश्चयोऽप्यस्य सन्देह एव, ऊहने सति स्वचेतसि खुडकनात्, कोमलवचसा युक्तिपृच्छायां किमपि न ज्ञायते इत्यस्यैवोत्तरस्य दानात् । ततो मध्यस्थोऽहमि त्यसावप्यभिप्रायो ऽस्य सन्देहरूप एव । सम्यग्दृष्टेः पुनरन्तर्गतयुक्तिनिरीक्षितं विश्वस्वरूपं करतलमुक्तमुक्ताफलवच्चेतसि प्रतिभाति । सम्यग्दृष्टिरपि कदाचित्किञ्चिद्वचनमपरीच्छन् कञ्जि दर्थमाश्रित्य भाण्डागारितसन्देहस्सन् यथा जिनागमान्यतरवचafa सत्यानि तथेदमपि वचनं सत्यमिति जिनागमाऽन्यतरपरिष्टवचनानुलग्नो यत इदं संघेन मतं ततो मयापि मतमितिसङ्घमार्गानुलग्नो चेत्यनेनैवाल्पावबोधेन तद्वचनं स्वचेतसि निश्चनोति । जिनागमवचनप्रवाहस्ततो मार्गप्रवाहस्तयोस्तत्त्वरूपत्वेन तदा तदनुलग्नत्वमेवार्थमार्ग इत्यस्य निश्चयो निश्चय एवार्वाक्yनरस निश्चयो यथावस्थिततत्त्वस्य संक्षेपावबोधो भण्यते । कालान्तरेण तदर्थमार्गपरिज्ञानेन भाण्डागारितसन्देहस्य व्यपगमात् । एतेन यः कश्चित्तत्त्वातत्त्वे समदृशा पश्यति, स एव