________________
६७
जघन्योत्सूत्रिनिदर्शनम् समभावभावितात्मा मोक्षाधिकारीति वदति । सोऽपि परास्तः। यतस्तत्त्वातत्त्वे समदृशा पश्यतोऽतत्त्वाऽऽश्रयणमेव भवेत्। उक्तं च गुरुतत्त्वप्रदीपे
तत्त्वातत्त्वे श्रयत्यस्मिन्, न तत्त्वमुदितं ततः।
यत एष कुसन्दिग्धदृष्ट्या पश्यति ते समे ॥१॥ अस्य वृत्तिः'अस्मिन् कुपाक्षिके, 'तत्त्वातत्त्वे श्रयति'लोकोत्तरभद्रकतया तत्त्वंकियन्तमपि तत्त्वाचार, अतत्त्वं-कियन्तमप्यतत्त्वाचारं चाश्रयति ततः-तस्मात्कारणादतत्त्वमुदितं-प्राग्श्लोके उक्तं, यतो-यस्माकारणात्, एष कुपाक्षिकस्ते-तत्त्वातत्त्वे, 'कुसन्दिग्धदृष्ट्या' कुत्सिता-सन्दिग्धा सन्देहमापन्ना, या दृष्टिः-अन्तरङ्गलोचनं, तया। अवलेपवतस्सन्देहो हि दुर्व्यपगमत्वात् कुत्सितो भवति । अतः कुसन्दिग्धेत्युक्तं। समे-तुल्ये सदृशस्वरूपे पश्यति । किमुक्तं भवति-तत्त्वमतत्त्वसदृशमतत्त्वं तत्त्वसदृशं पश्यतस्तस्य यथावस्थितस्वरूपानिरीक्षणे उभयमप्यतत्त्वमेव परिज्ञेयम् ।' किञ्चतत्त्वातत्त्वे समदृशा पश्यन् श्रीहेमाऽऽचार्येण स्वामिनः पुरस्तात्तत्त्वमत्सर्येव व्यवस्थापितः। उक्तंचागम्यमध्यात्मविदामवाच्यमित्याद्यपदोपलक्षितायां श्रीमहावीरतत्त्वालोकद्वात्रिंशिकायाम्'सुनिश्चितं मत्सरिणो जनस्य, न नाथ ! मुद्रामतिशेरते ते । मोध्यस्थ्यमास्थाय परीक्षका ये,
मणौ च काचे च समानुवन्धा' ।।१।। इति यत्तु-'शत्रौ मित्रे तृणे स्त्रैणे, स्वर्णेऽश्मनि मणौ मृदि ।