________________
षोडशश्लोक्यां
मोक्ष भवे भविष्यामि, निर्विशेषमतिः कदे ।। ति [ योगशास्त्रम् ] भावनायां या निर्विशेषमतेः प्रार्थना, सा रागद्वेषावेवाश्रित्याऽवसातव्या न पुनर्ज्ञानश्रद्धाने समाश्रित्यापि । यतः शत्रं मित्रत्वेन मित्रं च शत्रुत्वेनोभावप्युभयत्वेन जानन् दृष्टेविपर्यासात् मिथ्यादृष्टिरेव स्यात् । सा च भावनाऽनुचितैव । तस्माच्छ शत्रुत्वेन मित्रं च मित्रत्वेन जानन्नपि रागद्वेपाकलङ्कितः कदा स्यामित्यादिरूपेण प्रार्थना, न पुनस्तुल्यत्वेन ज्ञानव्यवहारयोः प्रार्थनेति भावः । अन्यथा शत्रुमित्रयोस्तुल्यत्वेन प्रार्थनायामिव धर्माधर्मयोरपि तुल्यत्वेन ज्ञानव्यवहारप्रार्थनाप्रसङ्गात् । धर्मवदधर्मस्याप्युपादेयत्वेनाधर्मवद्धर्मस्यापि हेयत्वेन च प्रसङ्गः स्यात् । तथाचाऽत्यन्तमासमञ्जस्यं, उभयलोकविरुद्धत्वात् । नहिलोकेऽपि पितृपुत्रयोर्विषामृतयोश्च तुल्यत्वेन ज्ञानं व्यवहारं वा स्वीकरोति । एवं लोकोत्तरेऽपि । आस्तां तावदन्यत्- केवलिनामपि तथाज्ञानव्यवहाराभावात् तच्च प्रवचन विदां प्रतीतमेव । यतः 'इणमेव निम्गंथे पावयणे सच्चे अणुत्तरे केवलिय' त्तिवचनाज्जिनप्रवचनमुपादेयमेवेत्युक्तं । 'नो कप्पइ अज्जप्पभिई अण्णउत्थिए वा अण्णउत्थियदेवयाणि वा अण्णउत्थियपरिग्गहियाइं अरिहंतचे आणि वे'तिवचनात् जिनप्रवचनबाह्य ं च हेयमेवेत्युक्तमित्यादि स्वधिया ध्येयमिति । तस्मादेव -
'रत्तो दुट्ठो मूढ़ो पुव्वि व्वगाहिओ अ चत्तारि । एए धम्मअणरिहा अरिहो पुण होइ मज्झत्थो' त्तिगाथायांयो मध्यस्थः स धर्मार्हत्वेनाद्यो बोध्यः । न पुनर्द्वितीयस्तस्य मूढ
६८