Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 74
________________ द्वात्रिंशिका वधिज्ञाने तु गृहस्थावस्थायामपि कूर्मापुत्रानन्दादीनां प्रतीते एवेति। एवं दिव्यानुभावविशेषादन्यास्वपि प्रतिमास्वायोज्यं । एतेन सावद्यत्वादिहेतुरपि श्राद्धप्रतिष्ठाव्यवस्थापको भविष्यतीति शृगालकदाशाऽपि परास्ता, प्रतिष्ठायाः सावद्यरूपत्वाभावेन हेतोः स्वरूपासिद्धत्वात्। सावद्यत्वाभावस्तु सुवर्णशलाकादिनेत्रोन्मीलनरूपप्रतिष्ठाप्यान्त्यक्रियालक्षणायाः प्रतिष्ठाया यतिकृत्यत्वेन तीर्थकृद्भिः साधूनामेवोपदिष्टत्वेन च साध्यः। प्रयोगस्त्वेवं-उक्तरूपो जिनप्रतिष्ठा न सावद्यरूपा, साधुकृत्यत्वात् साधूनामेव जिनोपदिष्टत्वाद्वा, आचाराङ्गादिसूत्राध्ययनवत् । किञ्च-सावद्यत्वहेतुर्मत्स्यबन्धादिकर्मणि व्यभिचार्यपि। एवं व्यतिरेकव्याप्तिग्रहेऽपि यद्यत् श्रावककृत्यं न भवति तत्सावा न भवतीत्यपि नास्ति,श्राद्धप्रतिष्ठा प्रवचनोक्तेत्येवंरूपेण तिलकाssचार्यदत्तालीकप्रवचनकलङ्कदानवत् । कलङ्कलेशाकलकितस्यापि जैनप्रवचनस्य अलीककलङ्कदानं तु श्राद्धकृत्यं न भवति, तथा तत्सावद्यमपि न भवतीति न, तस्य महासावद्यरूपत्वात् । ननु तिलकाऽऽचार्येणाऽलीककलङ्कदानमकारि तत्कथमिति चेत्, उच्यते-प्रायो लघुवैयाकरणानामपि भिन्नार्थत्वेन प्रतीतानां प्रतिष्ठा १ स्थापन २ प्रतिष्ठापन ३ स्थापना ४ शब्दानामेकार्थतां प्रकल्प्य कुकल्पनाचक्रवर्तिना तिलकाऽऽचार्येण पञ्चाशकहरिवंशादिग्रन्थानां सम्मतितया निदर्शनं चक्रे, तच्च ग्रीष्मकालाऽऽतपोपतप्तपिपासिनां पुंसां जलाशयधावतां मृगतृष्णेव न समीहितार्थसम्पादकं, विचार्यमाणस्य तस्य मेकलकन्यकायाः कूले

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168