________________
द्वात्रिंशिका
वधिज्ञाने तु गृहस्थावस्थायामपि कूर्मापुत्रानन्दादीनां प्रतीते एवेति। एवं दिव्यानुभावविशेषादन्यास्वपि प्रतिमास्वायोज्यं । एतेन सावद्यत्वादिहेतुरपि श्राद्धप्रतिष्ठाव्यवस्थापको भविष्यतीति शृगालकदाशाऽपि परास्ता, प्रतिष्ठायाः सावद्यरूपत्वाभावेन हेतोः स्वरूपासिद्धत्वात्। सावद्यत्वाभावस्तु सुवर्णशलाकादिनेत्रोन्मीलनरूपप्रतिष्ठाप्यान्त्यक्रियालक्षणायाः प्रतिष्ठाया यतिकृत्यत्वेन तीर्थकृद्भिः साधूनामेवोपदिष्टत्वेन च साध्यः। प्रयोगस्त्वेवं-उक्तरूपो जिनप्रतिष्ठा न सावद्यरूपा, साधुकृत्यत्वात् साधूनामेव जिनोपदिष्टत्वाद्वा, आचाराङ्गादिसूत्राध्ययनवत् । किञ्च-सावद्यत्वहेतुर्मत्स्यबन्धादिकर्मणि व्यभिचार्यपि। एवं व्यतिरेकव्याप्तिग्रहेऽपि यद्यत् श्रावककृत्यं न भवति तत्सावा न भवतीत्यपि नास्ति,श्राद्धप्रतिष्ठा प्रवचनोक्तेत्येवंरूपेण तिलकाssचार्यदत्तालीकप्रवचनकलङ्कदानवत् । कलङ्कलेशाकलकितस्यापि जैनप्रवचनस्य अलीककलङ्कदानं तु श्राद्धकृत्यं न भवति, तथा तत्सावद्यमपि न भवतीति न, तस्य महासावद्यरूपत्वात् । ननु तिलकाऽऽचार्येणाऽलीककलङ्कदानमकारि तत्कथमिति चेत्, उच्यते-प्रायो लघुवैयाकरणानामपि भिन्नार्थत्वेन प्रतीतानां प्रतिष्ठा १ स्थापन २ प्रतिष्ठापन ३ स्थापना ४ शब्दानामेकार्थतां प्रकल्प्य कुकल्पनाचक्रवर्तिना तिलकाऽऽचार्येण पञ्चाशकहरिवंशादिग्रन्थानां सम्मतितया निदर्शनं चक्रे, तच्च ग्रीष्मकालाऽऽतपोपतप्तपिपासिनां पुंसां जलाशयधावतां मृगतृष्णेव न समीहितार्थसम्पादकं, विचार्यमाणस्य तस्य मेकलकन्यकायाः कूले