________________
६४
महावीरविज्ञप्तित्यक्रियारूपा प्रतिष्ठा साधुभिरेवानुष्ठेया, आगमे साधूनामेवोपदिष्टत्वात्, प्रवज्याप्रदानवत् । व्यतिरेके च जिनस्तववदिति। ननु कुमारनन्दिसुवर्णकारजीवेन विद्युन्मालिदेवेन निर्मिता श्रीमहावीरप्रतिमा साधुप्रतिष्ठाया असम्भवेन देवेनैव प्रतिष्ठिता कथं प्रभावत्यादिभिः पूजिता ? इति चेत्, मैवं देवेनैव प्रतिष्ठितेत्यत्र मानाभावात् । ननु तर्हि साधुनैव प्रतिष्ठितेत्यत्रापि किं प्रमाणम् ? इति चेत्, उच्यते-चेत् प्रतिष्ठिता, तर्हि साधुनैव। नहि भरतादिक्षेत्रवर्तिसाधवो देवानां दुर्लभाः, अन्यथाऽऽगमबाधप्रसक्तेः । ननु तर्हि गौरवाल्लाघवं न्याय्यमितिन्यायात् तथाविधदेवनिर्मितप्रतिमायाः प्रतिष्ठाया अभाव एव कल्प्यतामितिचेत् । सत्यं, यदि क्वापि व्यक्तिर्नोपलभ्यते तहिं तथासंभावनापि ज्यायस्येव, देवतार्पितरजोहरणमुखवस्त्रिकादिवेषविशिष्टसाधोरिव देवनिर्मितप्रतिमायाः प्रतिष्ठामन्तरेणापि पूजाहत्वसम्भवात्, दिव्यानुभावस्य तथास्वभावत्वात् शाश्वतस्वभावात् शाश्वतप्रतिमावदिति । परं साधुवेषार्पणमिव गृहस्थप्रतिष्ठा त्वनिष्टैव । किञ्च-सम्यग्दृष्टिदेवानामवधिज्ञानित्वेनाऽऽगमव्यवहार्य्यन्तर्भूतत्वादपि नान्यैस्तदपेक्षा समीक्षणीया। आगमव्यवहारिणो हि श्रुतव्यवहारप्रवर्तितं प्रतिपद्यन्ते, न पुनस्तदनुसारेण प्रवर्त्तन्ते। श्रुतादिव्यवहारापेक्षयाऽऽगमव्यवहारस्य बलीयस्त्वात् । न च व्यवहारपञ्चकं साधनामेवेतिशङ्कनीयं, यथासम्भवमन्येषामपि श्रवणात् । कथमन्यथा भृगुकच्छवननिवासियक्षस्य धारणाव्यवहार उक्तः। केवला