________________
द्वात्रिंशिका
क्षिप्ता ध्वजेषु दण्डेषु, चैत्यबिम्बेषु सूरिभिः॥१॥ इति “सप्तसप्तचतुः ४७७ सङ्ख्ये, गते विक्रमवत्सरे” इत्यादित्रयोदशश्लोकोपलक्षिते लघुनि श्रीशत्रुञ्जयमाहात्म्ये,। तथा तत्रैव
“एवं सिंह निषादाख्यं, प्रासादं भरताधिपः।
कारयित्वा प्रतिष्ठाप्य, जिनांश्चापूजयत्ततः” ॥१॥ इत्युक्तलघु श्री श० अष्टापदप्रासादप्रतिष्ठाधिकारे। तथा
"केवल्येष स्वयंबुद्धः, श्वेताम्बरशिरोमणिः। कर्ता प्रतिष्ठिां कोऽप्येषु, पुण्यानामुदयस्तव ।।१।। ततश्चावन्तिनाथेन, प्रार्थितः कपिलो मुनिः।
प्रत्यष्ठात्प्रतिमा मन्त्रपूतचूर्णानिति क्षिपन्” ॥२॥ इति श्रीहेमाचार्यकृतश्रीमहावीरचरित्रे एकादशसर्ग। तथा "प्रतिष्ठाप्य जिनेन्द्राणां, प्रतिमा निर्मिता नवाः। विधिना सूरिमन्त्रण, गुरुणा ब्रह्मचारिणे"ति सम्यक्त्वकौमुद्यां तृतीयप्रस्तावे तृतीयकथायां। एवं श्रीऋषभचरित्रादिष्वप्यनेकेषु ग्रन्थेषु भरतादीनां श्रीनाभसूरिप्रभृतिभिः प्रतिष्ठाकारयितृत्वेन प्रयोगो दृश्यते, न पुनः स्वयं प्रतिष्ठाकर्तृत्वेन प्रयोगः। किञ्चाबुदाचलादितीर्थेध्वपि शिलापट्टकोत्कीर्णवर्णपक्तिषु नवागीवृत्तिकारकश्रीअभयदेवसूरिसन्ताने श्रीधर्मघोषसूरिभिः श्रीशान्तिनाथबिम्बं प्रतिष्ठितमित्यादिश्रीनेमिनाथप्रासादे पश्चिमदिग्व्यवस्थितश्रीशान्तिनाथदेवकुलिकाप्रशस्तौ । एवं जीर्णप्रतिमास्वपि अमुकसूरिभिः प्रतिष्ठितमिति लिखितं दृश्यते, न पुनरमुकश्रावकेणेति दृश्यते । तस्मात् प्रतिष्ठाप्यप्रागभावावच्छिन्नसमयवयं