________________
महावीरविज्ञप्तिबाधोऽपि । तेन हि देवानांप्रियेण स्त्रीणामपि प्रतिष्ठायामधिकारो दर्शितः, कथमन्यथा 'पाण्डवमात्रेत्यादिना स्वकपोलकल्पितप्रतिष्ठाकल्पे निदर्शनमकारि। किञ्च-मुग्धजनविप्रतारकचतुरचेतस्कचामुण्डिकचतुरताया अप्यस्य चतुरता तु वाग्गोचरीकर्तुमप्यशक्या । यतः स्त्रीजिनपूजोच्छेदकत्वेन तेन चामुण्डिकवराकेनाबला एव वंचिताः, अनेन तु दुरात्मना जगदुत्तरसाहसमवलम्बमानेन त्रिजगत्पूज्याचार्यसंबन्धिप्रभुताधनं छित्वा दत्वा च स्त्रीभ्यस्ताश्चौर्यमाश्रित्य महापराधिन्यश्चक्रिरे । किंचागमबाधोऽपि, आगमे साधूनामेव प्रतिष्ठाया दृष्टत्वात् । तथाहि-श्रीसिद्धसेनदिवाकर-श्रीउमास्वातिवाचक-श्रीहरिभद्रसूरिआर्यश्रीसमुद्राचार्य-श्रीप्रभाकरप्रभृतिप्रणीतप्रतिष्ठाकल्पास्तावदाचारप्रतिपादका ग्रन्थास्तेषु सर्वत्रापि 'सुरिः प्रतिष्ठां कुर्यादि'त्याद्यर्थप्रतिपादकवाक्यानामेव प्रयोगो, न पुनः श्राद्धः प्रतिष्ठा कुर्यादिति प्रयोगः। तथा पादलिप्ताचार्यविरचितनिर्वाणकलिकायामपि प्रतिष्ठाधिकारे 'सूरिः प्रतिष्ठां कुर्यादि'त्याद्यव प्रयोगः। एवमाचरितप्रतिपादकग्रन्था यथा
"प्रतिष्ठामहतां यो हि, कारयेत्सूरिमन्त्रतः।
सोऽहत्प्रतिष्ठां लभते, यथा चापस्तथा फलं" ॥१॥ इति बृहति श्रीशत्रुञ्जयमाहात्म्ये । तथा
“सर्वतीर्थोदकैः सौं-षधिभिर्देवताहतैः। शास्त्रोक्तविधिना भूपः, प्रतिष्ठामप्यकारयत्' ॥१॥ बासाक्षता सूरिमन्त्रेणाभिमन्य पवित्रताः।