________________
महावीरविज्ञप्तितालहिंतालयोमले सुलभाः पिण्डखजूराः सन्तीति विप्रतारकवाक्यवदाप्रापकत्वेन विशीर्यमाणत्वात्, असत्यस्य च तादृग् स्वभावत्वात् । उक्तं च -
"यथा यथा विचार्येत, विशीर्येत तथा तथा । असत्योक्तं बही रम्यं, नान्तः खरपुरीषवत् ॥ १।। इति
तद्विचारणे च प्रतिष्ठाशब्दस्थापनशब्दयोरन्योऽन्यं पर्यायभाक्त्वं किं व्युत्पत्त्या कविरूढ्या वा ? । नाद्यो, भिन्नार्थाभिधायिकाया व्युत्पत्तेः सर्वेषामपि वैयाकरणानां प्रतीतत्वात् । नापि द्वितीयः, प्रतिष्ठाशब्दस्थापनशब्दयोरेकार्थवाचकत्वेन कविरूढेरभावात् । यद्यप्येतौ केवलावनेकार्थों तथापि नान्योऽन्यं पर्यायभाजिनौ। ननु तर्हि प्रकृतप्रकरणेऽनयोः को भेदः ? इति चेत्, उच्यते-प्रतिष्ठाशब्दस्तावत् प्रतिष्ठाप्यहेतुभूतक्रियाविशेषवाचकः, स्थापनशब्दः पुनराधाराधेयभावसम्बन्धनिबन्धनक्रियाविशेषवाचकः, क्रमेण कविप्रयोगोऽपि-"ततश्चावन्तिनाथेन, प्रार्थितः कपिलो मुनिः। प्रत्यष्ठात् प्रतिमा मन्त्र-पूतचूर्णान् विनिक्षिप"। न्निति श्रीवीरचरित्रे। एवं शत्रुञ्जयमाहात्म्यादावपि। तथा स्थापनशब्दस्य कविप्रयोगो यथा
“तदा नदीप्रवाहेण, पाटिताद्विकटात्तटात्। युगादिदेवप्रतिमा, प्रकटाऽभूत् प्रभावयुग ॥ १ ॥ तां प्रेक्ष्य हर्षयुक्तोऽसौ, स्नपयामास वारिणा ।
पीठं कृत्वा मृदोत्तुङ्ग, स्थापयामास तत्र तां” ।। २ ।। इति श्रीविमलनाथचरित्रे।