________________
द्वात्रिंशिका
तथा “उम्मग्गनिवारणयं, सम्मग्गठावणं च भव्वाणं ।
एमाइ जं विहिरं, अणुमोए हं तमप्पहिअं ॥१॥"ति श्रीआराधनापताकायां । किञ्च-स्थापनशब्दप्रतिष्ठाशब्दयोरन्योऽन्यं पर्यायतां कल्पयन् तिलकाऽऽचार्य एव स्वाभिमतार्थसिद्धये स्वकल्पितप्रतिष्ठाकल्पस्य स्थापनकल्प इत्येवाभिधानं कथं न दत्तवान् ? । तस्मात् सान्वर्थाभिधायकप्रतिष्ठाकल्पनैव तिलकाssचार्योऽप्यपर्यायरूपतां वदन् तटादर्शिशकुन्तपोतन्यायमशिश्रियदित्यलं विस्तरेण । एवं प्रतिष्ठापनशब्दः णिगप्रत्ययनिष्पन्नत्वेन प्रतिष्ठाप्रयोजककत क्रियाविशेषवाचकः, स्थापनाशब्दस्तु प्रतिष्ठाविषयीभूतो यो जिनबिम्बादिपदार्थस्तस्य वाचक इत्यादि स्वयं बोध्यम्। किच-प्रातरग्राह्यनाम्नोऽस्य तिलकाऽऽचार्यस्याऽनार्यधौयं तावद्धीमन्त एव विदन्ति। यतः स्वकृतावश्यकवृत्तौथूभसय भाउआणं, चउवीसं चेव जिणहरे कासी।
सव्वजिणाणं पडिमा, वण्णपमाणेहिं निअएहि ॥१॥ति गाथाया अतिदेशेन व्याख्याऽवसरे भरतःस्वयं प्रतिष्ठितवानिति स्वयमेव दुरात्मा पयसि गुप्ततालपुटविषमिव स्वमतं प्रक्षिप्य भरतेश्वरेण प्रतिष्ठा कृतेत्यावश्यकवृत्तावित्यादिसामान्यवचसा स्वकृतेरेव सम्मतिं दत्तवानिति । अत एव तिलकाऽऽचार्यकृताऽsवश्यकवृत्तिर्न विदुषां सम्मतेति बोध्यम् । प्रतिष्ठामाश्रित्य स्वमतप्रक्षेपेणैव व्याख्यानात् । ननु तर्हि तावन्मात्रस्यैव तत्त्यागो युक्तो, न पुनः प्रवचनानुयायिनोऽपि सर्वस्येति चेत्, नैवं, .निहवकृतस्य सर्वस्यापि प्रवचनानुयायित्वाभावात् । उक्तं च