Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
धर्मपरीक्षा-1
तृतीय
परिच्छेदः
॥१८॥
दानैर्दयाभिरपि संयतदेवताहदुर्वर्चनाप्रणतिमिश्च जपैस्तपोमिः।
इत्युक्तपुण्यनिचयैरपचीयमानाः प्राक्पापजा यदि रुजःप्रशमं प्रयान्ति ॥१॥ यद्यारोग्यसमीहाऽस्ति भवतः सर्वदेहिनाम् । कायेन मनसा वाचा यथाशक्ति दयां कुरु ॥१०॥ साधुश्रावकयोर्योग्यं सद्धर्मो द्विविधः स्मृतः । सम्यग्दर्शनसंशुद्धः सर्वाभीष्टफलप्रदः ॥ ११॥ इत्यादिदेशनां श्रुत्वा सम्यक्त्वं प्रतिपद्य सः । पञ्चाणुव्रतरूपेऽभूत् श्राद्धधर्मे दृढाशयः ॥ १२ ॥ निःशेषं श्रावकाचारं ज्ञात्वा वातभवस्थितिः। मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् ॥ १३॥ अभक्ष्यानन्तकायादिबहुवीजफलानि च । त्रिविधं त्रिविधेनेष तत्याज द्विजपुङ्गवः ॥ १४ ॥ संपद्यमानसर्वाङ्गचिकित्सायोगसंपदा । रोगाधिसहनं तेन कुर्वतेति विचिन्तितम् ॥ १५॥ पुनरपि सहनीयो दुःखभारस्त्वयाऽयं न खलु भवति नाशः कर्मणां प्राकृतानाम् । इति सह गणयित्वा यद्यदायाति सम्यक् सदसदतिविवेकोऽन्यत्र भूयः कुतस्ते ॥ १६ ॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ १७॥ एवं हि सहमानस्य तस्य तीव्रामयव्यथाम् । प्रशंसामन्यदा देवाधिपतिः संसदि व्यधात् ॥ १८॥ अहो! सात्त्विकमूर्द्धन्यो रोगनामा द्विजोत्तमः । सत्यामपि गृहे सर्वचिकित्सोपायसंपदि ॥ १९ ॥ खदेहेऽपि निरापेक्ष्यमना धर्मकतत्परः । तितिक्षति व्यथामेवं नानारोगसमुद्भवाम् ॥२०॥ तद्वाक्याश्रद्धया चान्तौ वैद्यरूपधरौ सुरौ । उभौ तत्र समागत्य ब्रूतः स्म द्विजपुङ्गवम् ॥२१॥ यथा भो ब्रामणप्रष्ठ ! सर्वव्याधिविवर्जितम् ।
॥१८॥

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148