Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 105
________________ * - +05949454 ततः॥४७॥ तत्र शत्रुजयोर्वीभृत्तीर्थमाहात्म्यमद्भुतम् । श्रुत्वाऽसौ संसृतिभ्रान्तिजातपापमरापहम् ॥४८॥ गत्वा श्रीऋषभं तत्र रत्नेनैकेन भक्तितः। श्रीपालः पूजयामास पुष्पाद्य पुरस्सरम् ॥४९॥ नित्यानित्यस्थावरजङ्गमतीर्थाधिकं जगत्रितये । सर्वसुरासुरााः स जयति गिरिनारगिरिराजः॥५०॥ इत्युक्तः सर्वतीर्थेभ्यो गरीयस्त्वं विभाव्य सः। उज्जयन्तगिरौ नेमि नमस्कर्तुमना ययौ ॥५१॥ ग्रन्थि विलोकते गावद्रलपूजाविधित्सया । चत्वार्येव स हैरत्नानि तावत्पश्यति पुण्यभाग् ॥ ५२ ॥ अहो ! तीर्थस्य माहात्म्यं तत्पूजाया अहो! फलम् । घ्यायन्नेवं तत श्चक्रे नेमिपूजां तथैव सः॥ ५३॥ ततोऽसौ नेमिनं नत्वा गच्छन्निजपुरं प्रति । मध्याहे भुक्तये प्रापद्धामे सौवीरनामनि ॥ ५४॥ श्रीपालः प्राप्तवास्तत्र निःखश्रावकमन्दिरम् । दुस्थामवस्यां तद्वेश्मन्यालोक्याचिन्तयत्वयम् ॥ ॥ ५५॥ जिणसासणस्स सारं जीवदया निग्गहो कसायाणं तह साहमियवछलं जिणेहिं सवेहि उवइ8 ॥५६॥ एकमर्पयितुं रत्वं तस्याहंतशिरोमणेः। छोटितेऽथ तदा ग्रन्थौ कर्मग्रन्थाविवात्मनः ॥ ५७॥ स चत्वार्येव रत्नानि वीक्ष्य तत्र सविस्मयः । सगौरवं ददौ रत्वं तस्मै सत्पुण्यपुष्टये ॥ ५८ ॥ निर्माय भोजनं तस्मिन् व्रजन्नग्रे क्वचित्पुरे । | रत्नस्सैकस्य मूल्येन हेमकोटिमसौ ललौ ॥ ५९॥ हेना तेन ततः कृत्वा भृत्याश्वादिपरिच्छदम्। क्रमेण खगृहं प्रापत् श्रीपालो निर्मितोत्सवम् ॥ ६॥ तावन्त्येव स रत्नानि ग्रन्थौ तत्रापि पश्यति। खपित्रोश्च पुरः सर्व तत्खरूपं न्यवेदयत् ॥ ६१॥ भूभृतः प्राभृतीचशे रत्नमेकं मनोहरम् । सोऽपि तुष्टो ददौ तस्मै सर्वपौरामगं पदम् ॥ ६२॥ ********

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148