Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 122
________________ धर्मपरीक्षा - ॥ ४८ ॥ परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्वात्क्रतुशतैरपि ॥ १॥ स च द्रव्यभावाभ्यां द्विप्रकारः दबंमि अन्नपाणाइदाणरूवो अ तत्थ विन्नेओ । दुहियाणं जीवाणं विहिअधो धीरपुरिसेहिं ॥ १ ॥ भावुवयारो सम्मत्तचरणेसु जमिह संठवणं । सयमप्पणो परस्त य निवाणंगं जिणा विंति ॥ २ ॥ अथोपकारोपरि कथा उपकारविधौ यत्तो बुधैः शश्वद्विधीयताम् । पद्मे पद्मेव पुण्योपनिषद्यत्र निषीदति ॥ १ ॥ उपकुर्वन् यथा पूर्वमभयङ्करचक्रभृत् । आसीदसीम श्रीधाम तथा सम्यग्र निशम्यताम् ॥ २ ॥ आसीत्पूर्वविदेहेषु विजया पुष्कलावती । | पुष्कलावर्तमेघाम्बुभावितोर्वीतलाऽनिशम् ॥ ३ ॥ बभूव नगरी तस्यां प्रशस्ता पुण्डरीकिणी । चम्पेव शीलविख्यात - सुभद्रोन्नतिशालिनी ॥ ४ ॥ यस्यां विवेकिनो लोका धर्म पुष्णन्ति सत्कृतैः । तानसौ किल पुष्णाति कृतज्ञः सर्वसंपदा ॥ ५ ॥ क्षेमङ्करो नृपस्तस्यामासीत्सीमा यशखिनाम् । तत्प्रिया सूरसेनाऽभूद्भूतलाद्भुतरूपभृत् ॥ ६ ॥ चतुर्दशमहास्वप्नसूचितः संचितो गुणैः । अभयङ्कर इत्यासीत्सूनुः सर्वोपकारकृत् ॥ ७ ॥ उपकारः कृतो नैव यस्मिन् कस्यापि देहिनः । तेन धर्मवता मेने तद्दिनं विफलं हृदि ॥ ८ ॥ वनान्तः प्राप्तमात्मानमन्यदाऽयमवैक्ष्यत । तत्रैकं योगिनं | दिव्यदेहं वीक्ष्यानमत्पुनः ॥ ९ ॥ चक्रिणं वीक्ष्य योग्याख्यत्सन्ति विद्याः परःशताः । सूर्यहासामिति विद्यां मयि सप्तमः परिच्छेदः 1187 11

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148