________________
*
-
+05949454
ततः॥४७॥ तत्र शत्रुजयोर्वीभृत्तीर्थमाहात्म्यमद्भुतम् । श्रुत्वाऽसौ संसृतिभ्रान्तिजातपापमरापहम् ॥४८॥ गत्वा श्रीऋषभं तत्र रत्नेनैकेन भक्तितः। श्रीपालः पूजयामास पुष्पाद्य पुरस्सरम् ॥४९॥ नित्यानित्यस्थावरजङ्गमतीर्थाधिकं जगत्रितये । सर्वसुरासुरााः स जयति गिरिनारगिरिराजः॥५०॥ इत्युक्तः सर्वतीर्थेभ्यो गरीयस्त्वं विभाव्य
सः। उज्जयन्तगिरौ नेमि नमस्कर्तुमना ययौ ॥५१॥ ग्रन्थि विलोकते गावद्रलपूजाविधित्सया । चत्वार्येव स हैरत्नानि तावत्पश्यति पुण्यभाग् ॥ ५२ ॥ अहो ! तीर्थस्य माहात्म्यं तत्पूजाया अहो! फलम् । घ्यायन्नेवं तत
श्चक्रे नेमिपूजां तथैव सः॥ ५३॥ ततोऽसौ नेमिनं नत्वा गच्छन्निजपुरं प्रति । मध्याहे भुक्तये प्रापद्धामे सौवीरनामनि ॥ ५४॥ श्रीपालः प्राप्तवास्तत्र निःखश्रावकमन्दिरम् । दुस्थामवस्यां तद्वेश्मन्यालोक्याचिन्तयत्वयम् ॥ ॥ ५५॥ जिणसासणस्स सारं जीवदया निग्गहो कसायाणं तह साहमियवछलं जिणेहिं सवेहि उवइ8 ॥५६॥ एकमर्पयितुं रत्वं तस्याहंतशिरोमणेः। छोटितेऽथ तदा ग्रन्थौ कर्मग्रन्थाविवात्मनः ॥ ५७॥ स चत्वार्येव रत्नानि वीक्ष्य तत्र सविस्मयः । सगौरवं ददौ रत्वं तस्मै सत्पुण्यपुष्टये ॥ ५८ ॥ निर्माय भोजनं तस्मिन् व्रजन्नग्रे क्वचित्पुरे । | रत्नस्सैकस्य मूल्येन हेमकोटिमसौ ललौ ॥ ५९॥ हेना तेन ततः कृत्वा भृत्याश्वादिपरिच्छदम्। क्रमेण खगृहं प्रापत् श्रीपालो निर्मितोत्सवम् ॥ ६॥ तावन्त्येव स रत्नानि ग्रन्थौ तत्रापि पश्यति। खपित्रोश्च पुरः सर्व तत्खरूपं न्यवेदयत् ॥ ६१॥ भूभृतः प्राभृतीचशे रत्नमेकं मनोहरम् । सोऽपि तुष्टो ददौ तस्मै सर्वपौरामगं पदम् ॥ ६२॥
********