________________
धर्मपरीक्षा
४॥
सप्तमः परिच्छेदः
श्रीदत्तया समं भोगान् भुजानः पञ्चधाऽप्यसौ । कुर्वन् सत्पुण्यकार्याणि खमुजोपार्जितश्रिया ॥ ६३ ॥ सद्योरसवतीभोजी द्विधाऽऽसीद्विश्रुतः सताम् । मनखी विस्मरन्नैव यद्धर्मन्यायवर्त्मनः ॥६४॥ नवीनस्थागमो नास्ति भुज्यते प्राक्तनं परम् । हता लोकद्वयी तस्य धनपुण्यार्जनं विना ॥६५॥ अन्येधुस्तत्पुरोद्याने श्रीयुगन्धरसूरयः । चतु-| निभृतो भूयोलब्धयः समवासरन ॥ ६६ ॥ आजग्मुस्तानमस्कर्तु भूपामात्यादयस्तदा । श्रेष्ठिना पुण्यपालन श्रीपा-1 लोऽपि समं मुदा ॥ ६७॥ गुरुभिर्निर्ममे तेषां पुरतो धर्मदेशना । सम्यक्त्वाणुव्रतादीनि प्रत्यपद्यत केचन ॥६८॥ श्रेष्ठिना पुण्यपालेन गुरुः पृष्टोऽन्यदा विभो ।। कर्मणा केन मत्सूनोरासीदेवं श्रियो भरः ॥ ६९॥
सोऽप्याख्यत्पोतनाख्येऽभून्नयसारो गृही महान् । इतो भवे तृतीये प्राक् तत्प्रिया च गुणावली ॥७॥ चन्दनव्यवसायेन कुर्वन्नाजीविकामसौ । विश्वत्रातुर्मुनेधर्मदेशनां शुश्रुवेऽन्यदा ॥ ७१ ॥ दानशीलतपोभावरूपं धर्म चतुर्विधम् । सम्यग्दर्शनसंशुद्धं भद्राराधय सर्वदा ॥ ७२ ॥ नेता धर्मस्य तस्याहन त्रिजगजनवत्सलः । अङ्गाप्रभावतस्तस्य सृज पूजां यथाविधि ॥७३॥ ऐश्चर्य संपदो भोगान् कुले जन्म सुखाद्भुतम् । आसाद्य निवृतेः सौख्यं लभसे येन शाश्वतम् ॥ ७४॥
॥७५॥ धर्म श्राद्धगुणान्वितः॥७६ ॥ चतुर्धा वस्तुनो दानं यथाशक्ति सजन्नसौ । परयोषित्परीहारव्रतधारी त्रिशुद्धितः ॥ ७७ ॥ एकाशनी यथाशक्ति पाक्षिकक्षपणोद्यतः । आत्मानं
॥४०॥