SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ भावयन् सम्यक् परपुण्यानुमोदवान् ॥ ७८ ॥ युग्मम् ॥ अन्यदा तेन सम्यक्त्वव्रतोद्य (पनहेतवे । मोदकाः श्रावक| श्रेणिवात्सल्याय विनिर्मिताः ॥ ७९ ॥ गृहागताय मुनये चतुर्मासोपवासिने । मुदाऽर्पिता गुणावल्या कान्तया कान्तभावः ॥ ८० ॥ लालवङ्गकर्पूरसारद्रव्यविमिश्रिताः । चत्वारो मोदका दत्ता भक्त्या पारणवासरे ॥ ८१ ॥ तत्पुण्यात्प्रथमे स्वर्गे भुक्त्वा दिव्यसुखावलिम् । श्रीपालाख्यः सुतो जज्ञे तवासौ संपदां पदम् ॥ ८२ ॥ अभूगुणावलीपुत्री श्रीदत्ता मन्त्रिणः पुनः । सुपात्रदानसाहाय्यपुण्यपुण्योदयादियम् ॥ ८३ ॥ त्रिधा शुद्धया चतुर्भेदं पुण्यं चक्रेऽमुना पुरा । यत्पात्रे च कृतं दानं चतुर्मासोपवासिनि ॥ ८४ ॥ ततो यत्पुण्यकार्यार्थ व्ययमस्य वितन्वितः । तावन्त्येव भवन्त्यत्र ग्रन्थौ रत्नानि सर्वदा ॥ ८५ ॥ क्षेत्रकालौचितीयोगात्पुण्यं सद्भावनिर्मितम् । जन्तोर्ज - न्मान्तरे दत्ते फलमक्षीणकोशवत् ॥ ८६ ॥ यानपात्रे भवाम्भोधौ यानपात्रेऽर्हदादिके । कृतार्थीक्रियते लक्ष्मीरलक्ष्मीः सा न संशयः ॥ ८७ ॥ आवासाः सार्वभौमस्य निधयः कुत्र कापणाः । मनोऽभीष्टफलैः शश्वत् फलन्ति सुकृतोदयात् ॥ ८८ ॥ नृदेवोत्तमसौख्यानि भुक्त्वा चारित्रयोगतः । इतो भवे चतुर्थेऽसौ सकलत्रः शिवगमी ॥ ८९ ॥ गुरोः पार्श्वे निशम्येति प्राग्जन्म तनुजन्मनः । गृहभारं सुते न्यस्य श्रेष्ठी शिवाय संयमम् ॥ ९० ॥ तमाहुः सूरयो भद्र ! चारित्रं लघुकर्मणा । जन्मकोट्याऽपि दुष्प्रापं नृजन्मन्येव लभ्यते ॥ ९१ ॥ तत्पुनर्निरतीचारं चरितं स्यात् शिवश्रिये । पञ्चमहातीरूपं भावनाभिर्विभावितम् ॥ ९२ ॥ प्रतित्रतं जिनैस्तासु पञ्च पञ्च प्रकीर्तिताः ।
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy