SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा सप्तमः परिच्छेदा 25A4%A5%258 मावनीयाः सदा सम्यक् साधुना शमसिन्धुना ॥९३॥ यतः-भावनाभिर्भावितानि पञ्चभिः पञ्चभिः क्रमात् । महाव्रतानि नो कस्य साधयन्त्यव्ययं पदम् ? ॥९४ ॥ तथा-निश्चयव्यवहाराभ्यां द्रव्यक्षेत्रादियुक्तितः । उत्सर्गमपवादं च यो जानाति स संयमी ॥ ९५ ॥ द्विचत्वारिंशता दोषैः शुद्धं पिण्डं गवेषयन् । यात्रामात्राकृताहारो धर्मध्यानी भवेन्मुनिः॥९६ ॥ यो वर्जयेत् पुण्यकार्येष्वतिक्रमव्यतिक्रमौ । अतीचारमनाचारं स साधुर्वस्तुतो मतः ॥९७॥ वस्त्रं पात्रं तथा पिण्डं शय्यां गृहाति योऽनिशम् । निर्दोष यतनाशाली संयतोऽसौ निगद्यते ॥ ९८ ॥ श्रमणः समताशाली न शिरस्तुण्डमुण्डनात् । यतियतनया सम्यग् न जटामस्मवल्कलैः ॥९९ ॥ एवं गुरुगिरं श्रुत्वा वैराग्यव्यवसायवान् । स मुनिः पालयामास निरतीचारसंयमम् ॥ १.०॥ श्राद्धधर्म तदा शुद्धं द्विविधत्रिविधेन सः। श्रीपालः शिश्रिये श्रीमान् समं श्रीदत्तया तया॥१.१॥ साकारं पालयन् धर्म ततोऽसौ गृहमागतः। निर्माय श्रीजिनागारं बिम्बश्रेणिविभूषितम् ॥ १०२॥ कृतोत्सवं प्रतिष्ठाप्य श्रीयुगन्धरसूरिभिः । साधर्मिकेषु वात्सल्यं यथाशक्ति विनिर्ममे ॥१.३॥ युग्मम् ॥ सम्मेतशिखरे तीर्थे विधिवन्नत्वा जिनेश्वरान् । सम्यक्त्वं विमलीचके फलं लेमे च जन्मनः ॥ १०४ ॥ सवृत्ते सद्गुणाधारे श्रीदत्ताकुक्षिमौक्तिके। श्रीसारेऽथ सुते न्यख वेश्मभारधुरं सुधीः ॥१०५ ॥ निराकारं क्रमाद्धर्ममाराध्य गुरुसंनिधौ । श्रीपालो द्वादशे वर्ग देवोऽजनि प्रियान्वितः ॥ १०६ ॥ ॥४१॥ %AA%स
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy