Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 119
________________ 1 अथ प्राह प्रियामेष स्वाभिप्रायं यथास्थितम् । लोभक्षोभवशाऽमंस्त सा जनन्यपि तद्वचः ॥ ६० ॥ ऊचतुः खाशयाकूतं ततस्तौ निजसूनवे । श्रुत्वा तद्वचनं सोऽपि स्याह तौ पितरौ यथा ॥ ६१ ॥ पुण्यं मम जजागार निश्चयेन पुराकृतम् । विनाशिना मदङ्गेन पितरौ सुखिनौ यदि ॥ ६२ ॥ विलम्बं मात्र कुर्वाथां मां राज्ञोऽर्पयत द्रुतम् । पश्चादपि हि मर्तव्यं संयोगोऽयं पुनः क भोः ! ॥ ६३ ॥ इत्युक्ते तेन पुत्रेण विस्मितौ निजमानसे । बध्यवेषधरं पुत्रं तमदत्त नृपाय तौ ॥ ६४ ॥ सर्व पूजोपचारादि लात्वा सिंहनृपस्ततः । चामुण्डाभवने प्रापत्तं पुरस्कृत्य पुत्रकम् ॥ ६५ ॥ द्रव्यैः सुगन्धैरर्चित्वा तां देवीमवनीपतिः । अप्रे च ढौकयामास बलिनैवेद्यमादरात् ॥ ६६ ॥ बलिमध्ये च दत्तोऽसौ सुभटस्य तनूरुहः । अभ्यर्च्य कुसुमै रक्तैर्जलदानादिपूर्वकम् ॥ ६७ ॥ स्वसेवकानां पुरतः प्रोचे सिंहेन भूभुजा । प्रीवायामस्य बालस्य खगघातं प्रदत्त भोः ! ॥ ६८ ॥ ते प्रोचुर्वरमन्यस्मिन् राज्ये यामो वयं विभो ! | निरागसोऽस्य बालस्य दास्यामो नैव घातकम् ॥ ६९ ॥ एवं प्रोक्ते समं तैस्तु तन्मात्राऽस्य शिखा धृता । कोशात्स | खड्गमाकृष्य पिता घाताय चोत्थितः ॥ ७० ॥ एवं खरूपं वीक्ष्यासौ सत्त्वमालम्ब्य चेतसि । उच्चैगिरा जगादेति सर्वेषां शृण्वतां विशाम् ॥ ७१ ॥ राजा स्वयं हरति मां यदि जीवितार्थे राज्येच्छयान्धबधिरौ पितरौ मदीयौ । त्वं । देवता मनुजमांसरसस्पृहाऽसि प्राणास्ततः सहत किं परिदेवनेन ॥ ७२ ॥ बालेनोक्ता तुष्टा देवी भूरिसाहसशालिना । प्रकटीभूय तं प्रोचे महासत्त्व ! वरं वृणु ॥ ७३ ॥ स प्रोचे यदि तुष्टाऽसि कृपा त्वं तदुरीकुरु । निश्चलं देहि

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148