Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
रकनकं क्वापि द्वीपे कुमारभूमी रवाहयादिरूपो धर्मोऽपि ॥ यतः-
१॥ देशे कुलं प्रधान ।
यथा कुमारकनकं कापि द्वीपे कुमारभूमौ रत्नाकरवदुद्गच्छति । तच्च धार्यमाणं सकलमङ्गलहेतुत्वेन दुष्टापन्निवारक पुण्योदयेन लभ्यते । एवं सम्यग्दर्शनपूर्वः सर्वप्राणिदयादिरूपो धर्मोऽपि ॥ यतः। भूतेषु जङ्गमत्वं तस्मिन् पञ्चेन्द्रियत्वमुत्कृष्टम् । तस्मिन्नपि मानुष्यं मानुष्येऽप्यार्यदेशश्च ॥ १॥ देशे कुलं प्रधान |कुले प्रधानेऽपि जातिरुत्कृष्टा । जातौ रूपसमृद्धी रूपे च बलं विशिष्टतमम् ॥ २॥ आयुष्कं भवति बले प्रकृष्ट-2 मायुष्कतोऽपि विज्ञानम् । विज्ञाने सम्यक्त्वं सम्यक्त्वे विरतिसंप्राप्तिः ॥३॥ एभिः कृत्वा भवारण्ये जिनधर्मोऽतिदुर्लभः । नियमयदृच्छारूपोऽनुष्ठेयः स द्विधा भवेत् ॥४॥ तत्राद्यो भावतः क्लप्सः सद्यः फलति संपदा । द्वितीयः क्षेपतो भुक्तिमुक्तिदायी विवेकिनाम् ॥ ५॥ यतः| जह चक्वडिसाली तकालं फलइ अक्खया होइ । इइ नियमसत्तसारो धम्मो इयरो इयरसाली ॥१॥ | निश्चयानुष्ठिताद्धर्माद्यथा श्रीविजयो नृपः । अत्रापि मङ्गलश्रेणीमाप तापविवर्जिताम् ॥१॥ तथाहि
श्रीपोतनपुरखामी राजा श्रीविजयोऽजनि । त्रिपृष्टवसुधाऽधीशपुत्रः सुत्रामविक्रमः ॥२॥ सर्वज्ञभक्तिपूतात्मा सम्यग्दृष्टिशिरोमणिः । कृपालुः सर्वजीवेषु त्रिखण्डभरतेश्वरः॥३॥ युग्मम् ॥ अन्यदाऽसौ सभासीनः पश्यन् प्रेक्षणकक्षणम् । सुखमास्ते सुबुद्ध्यादिमत्रिसामन्तसेवितः ॥४॥ तस्मिन्नवसरे कश्चित् प्रतिहारनिवेदितः । वैदेशिको निमित्तज्ञ आयासीत्तस्य संसदि ॥५॥श्रेयःप्रश्ने कृते राजादिष्टविष्टरमाश्रितः । सोऽवक तवानुभावन राजन् ।
*********

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148