SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ रकनकं क्वापि द्वीपे कुमारभूमी रवाहयादिरूपो धर्मोऽपि ॥ यतः- १॥ देशे कुलं प्रधान । यथा कुमारकनकं कापि द्वीपे कुमारभूमौ रत्नाकरवदुद्गच्छति । तच्च धार्यमाणं सकलमङ्गलहेतुत्वेन दुष्टापन्निवारक पुण्योदयेन लभ्यते । एवं सम्यग्दर्शनपूर्वः सर्वप्राणिदयादिरूपो धर्मोऽपि ॥ यतः। भूतेषु जङ्गमत्वं तस्मिन् पञ्चेन्द्रियत्वमुत्कृष्टम् । तस्मिन्नपि मानुष्यं मानुष्येऽप्यार्यदेशश्च ॥ १॥ देशे कुलं प्रधान |कुले प्रधानेऽपि जातिरुत्कृष्टा । जातौ रूपसमृद्धी रूपे च बलं विशिष्टतमम् ॥ २॥ आयुष्कं भवति बले प्रकृष्ट-2 मायुष्कतोऽपि विज्ञानम् । विज्ञाने सम्यक्त्वं सम्यक्त्वे विरतिसंप्राप्तिः ॥३॥ एभिः कृत्वा भवारण्ये जिनधर्मोऽतिदुर्लभः । नियमयदृच्छारूपोऽनुष्ठेयः स द्विधा भवेत् ॥४॥ तत्राद्यो भावतः क्लप्सः सद्यः फलति संपदा । द्वितीयः क्षेपतो भुक्तिमुक्तिदायी विवेकिनाम् ॥ ५॥ यतः| जह चक्वडिसाली तकालं फलइ अक्खया होइ । इइ नियमसत्तसारो धम्मो इयरो इयरसाली ॥१॥ | निश्चयानुष्ठिताद्धर्माद्यथा श्रीविजयो नृपः । अत्रापि मङ्गलश्रेणीमाप तापविवर्जिताम् ॥१॥ तथाहि श्रीपोतनपुरखामी राजा श्रीविजयोऽजनि । त्रिपृष्टवसुधाऽधीशपुत्रः सुत्रामविक्रमः ॥२॥ सर्वज्ञभक्तिपूतात्मा सम्यग्दृष्टिशिरोमणिः । कृपालुः सर्वजीवेषु त्रिखण्डभरतेश्वरः॥३॥ युग्मम् ॥ अन्यदाऽसौ सभासीनः पश्यन् प्रेक्षणकक्षणम् । सुखमास्ते सुबुद्ध्यादिमत्रिसामन्तसेवितः ॥४॥ तस्मिन्नवसरे कश्चित् प्रतिहारनिवेदितः । वैदेशिको निमित्तज्ञ आयासीत्तस्य संसदि ॥५॥श्रेयःप्रश्ने कृते राजादिष्टविष्टरमाश्रितः । सोऽवक तवानुभावन राजन् । *********
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy