SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा परिच्छेद SONAXXX ज्वलाशयः। उत्तमेषु सुपात्रेषु ददौ दानं त्रिधा शुचि ॥ ६४ ॥ शत्रुअयोजयन्ताद्रिसमेतशिखरादिषु । तीर्थेषु तीर्थकृन्मूर्तीनत्वा सोऽभूत्कृतीश्वरः ॥६५॥ अन्यदाभवने तस्य श्रीमद्वीरजगद्गुरुः । उपोषितश्चतुर्मास्यां पारणाय किलाययौ ॥६६॥ अहो! अनभ्रा मद्हे सुधावृष्टिरजायत । उद्वतः सुकृतोल्लासात्कल्पवृक्षस्तथाङ्गणे ॥ ६७॥ अर्हन्नसौ जगद्भर्ता पारणार्थ समागतः। ध्यात्वेति सहसोत्थाय तस्मै दानं ददावसौ ॥ ६८॥.सार्धद्वादशकोटीनां हेम्नस्तस्य गृहे तदा । वृष्टिस्तुष्टैः सुरैश्चके पात्रदानानुभावतः ॥६९॥ एवं जगत्रयीश्लाघ्यपुण्यकार्यपरायणः । सम्यग् बहूनि वर्षाणि श्राद्धधर्ममपालयत् ॥ ७॥ स प्रान्ते संयमं प्राप्य श्रीवीरजिनसंनिधौ । आरोग्यब्राह्मणो जज्ञे ब्रह्मलोके सुरः क्रमात् ॥ ७१ ॥ ततश्युत्वा क्षमाधीशपदं प्राप्य द्विधाऽपि सः । यथाख्यातचरित्रेण मुक्तिमासादयिष्यति ॥७२॥ एवं सद्धर्मसौवर्णरसायनसुसेवया । द्विधाऽपि लभते प्राणी निवृतिं हर्षसौख्यदाम् ॥७३॥ आरोग्यविप्रोत्तमवृत्त-18 मेतन्निशम्य धर्मस्थिरतापवित्रम् । हितैषिणा हेमरसायनाभः सेव्यः सदैवाईतशुद्धधर्मः॥७४॥ इति श्रीसोमसुन्दरसूरीश्वरशिष्यश्रीजिनमण्डनगणिनिर्मिते धर्मपरीक्षाशास्त्रे द्वितीयगुणवर्णनो नाम तृतीयः परिच्छेदः ॥३॥ ___ अथ तृतीयगुणखरूपमाहजिणधम्मो दयमाई कुमारकणगं व दुल्लहो नियमा । सेविजंतो आवयहरणाउ करेइ मंगलं ॥१॥ **********
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy