________________
।
%95+05345375
तीत्राणि सुबहून्यपि । तस्मात्पापं न कर्तव्यं जन्तुपीडाकरं हि तत् ॥ ५० ॥ देहपीडोपरि ज्ञातं भूपादीनां पुरस्तदा । सनत्कुमारसम्राजस्तेन पुण्यवतोऽकथि ॥ ५१ ॥ तथा भव्यकुटुम्बस्य शुद्धसम्यक्त्वशालिनः । धर्मायें विषवेगार्तिप्रतीकाराविधायिनः॥५२॥ युग्मम् ॥ सम्यग्धर्मवतां कायः श्रिया तुल्यः प्रकीर्तितः । आत्मा कायसमः शुद्धचिदानन्दमयः पुनः ॥ ५३॥ तस्मादात्मा जिनेन्द्रोक्तविधिधर्मपरायणः । देहादिभिर्निजैर्यनाद्रक्षणीयो विनश्वरैः॥५४॥ विज्ञाय दृढधर्माणं तमेवं श्रावकोत्तमम् ।प्रादुष्कृत्य निजं रूपमूचतुस्तौ सुराविति ॥५५॥ धन्योऽसि जगदोऽसि सत्त्वशालिशिरोमणे! । यस्य श्लाघां विभुः कुर्यात्पर्षदि खर्गिणां तव ॥५६॥ ततः स्वरूपमाख्याय राजादिभ्योऽखिलं निजम् । सर्वरोगापहारं द्राग् वपुषस्तस्य चक्रतुः ॥ ५७ ॥ दुःखबातापहारं च दत्त्वाहारं द्विजन्मनः । रत्नवृष्टिं च निर्माय जग्मतुस्तौ निजं पदम् ॥ ५८ ॥ आरोग्यद्विज इत्याख्यां तस्य राजादयो ददुः । जिनेन्द्रशासनस्यासीनगरे च प्रभावना ॥५९॥ ततो राजादयो धर्म द्वादशव्रतभूषितम् । खीचक्रुः संनिधौ तस्य मुदिताः सद्गुरोरिव ॥६॥सोऽचीकरजिनागारं कैलासाचलसोदरम् ।प्रेत्यसद्बोधिलाभाय हैमबिम्बसमन्वितम्॥६१॥यतः
जो कारवेइ पडिमं जिणाण जिअरागदोसमोहाणं । सो अन्नभवे पामइ भवमहणं धम्मवररयणं ॥१॥ इति ॥ | प्रशस्ते देशकाले यत् पात्रे दत्तं तदक्षयम् । कोटिजन्मार्जितं पापं ददतस्तस्य नश्यति ॥ ६२॥ अभिगम्य च यहानं यच्च दानमयाचितम् । विद्यते सागरस्यान्तस्तस्यान्तो नैव विद्यते ॥ ६३॥इत्यालोच्य खयं खान्ते विप्रः शिप्रो.