________________
धर्मपरीक्षा॥ २१ ॥
कुशलमस्ति मे ॥ ६ ॥ परं निमित्तमाख्यातुं किञ्चिदत्रागतोऽस्म्यहम् । यद्यादेशो भवेद्राज्ञस्तदा तत्कथ्यते स्फुटम् ॥ ७ ॥ एवं सङ्गीतके जावमाने सौध श्रवोपमे । निमित्तावसरः कोऽयं तवेति नृपतिर्जगौ ॥ ८ ॥ निशस्येति नृपं स्माह सुबुद्धिसचिवाग्रणीः । चेतोविनोदमात्रं हि सङ्गीतकमिदं विभो ! ॥ ९ ॥ सुलभं दुर्लभः प्रायो भविष्यज्ज्ञानवान् पुमान् । आदेशो दीयतां तस्मात्खाभिप्रायनिवेदने ॥ १० ॥ युग्मम् ॥ राजादेशं ततः प्राप्य सोऽवदत्सप्तम दिने । विद्युत्पतिष्यति खामिन् ! पुरस्यास्य नृपोपरि ॥ ११ ॥ युवराजो जगौ क्रोधकरालः किं तवोपरि । पतिष्यन्ति तदा सोऽवग् रत्नस्खर्णाम्बराणि च ॥ १२ ॥ श्रुत्वैतद्वचनं तस्य तमुवाच नृपः स्वयम् । भविष्यज्ज्ञानसंपत्तिः कुतस्तेऽभून्महामते ! ॥ १३ ॥ सोऽवग् जैनमताम्भोधेः सद्गुरूणां प्रसादतः । मयासादि महीनाथ ! निमित्तज्ञानमीदृशम् ॥ १४ ॥ ततः सत्यमिति ज्ञात्वा निमित्तं मत्रिणोऽखिलाः । नरेन्द्ररक्षणोपायविधित्साचान्तचेतसः ॥ १५ ॥ समुद्रमेरुबैताढ्यस्थित्यादिकमनेकधा । रक्षोपायं वदन्ति स्म मन्त्रिणो नृपतेः पुरः ॥ १५ ॥ युग्मम् ॥ यतः -
अशुभस्य कालहरणं कालेन क्षीयतेऽशुभम् । कालक्षेपात्पुरा प्रापत् पुत्रत्वं श्रेष्ठिनः सुता ॥ १ ॥ राजाऽपि ज्ञाततत्त्वार्थ स्तान् प्रतीदमभाषत । अवश्यंभाविनो भावा नान्यथा स्युः कदाचन ॥ १७ ॥ अवश्यं भाविभावानां प्रतीकारो भवेद्यदि । तदा दुःखैर्नापीम्पन्त नलरामयुधिष्ठिराः ॥ १८ ॥ भवितव्यं भवत्येव नालिकेरफलाम्बुवत् । गच्छत्येव हि गन्तव्यं गजमुक्तकपित्थवत् ॥ १९ ॥ दशाननोऽपि भाव्यर्थ तिरस्कर्तुं कथञ्चन ।
चतुर्थः परिच्छेदः
॥ २१ ॥