________________
कृतोपायोऽपि न जज्ञे त्रिजगत्कण्टकः प्रभुः ॥ २० ॥ अत्रान्तरेऽवदत् प्रोद्यद्विचारैकबृहस्पतिः । संभिन्नमतिमन्रीशः सर्वेषां विस्मयावहम् ॥ २१ ॥ सुबुद्धिमत्रिणा पूर्व निजबुद्धिप्रपञ्चतः । विप्रतार्य वचोव्याजाद्वञ्चितो विधिरप्यहो ! ॥ २२ ॥ परं नैमित्तिकेनैतत्पुराधीशोपरि स्फुटम् । विद्युत्पतनमाख्यायि न स्वकीयनृपोपरि ॥ २३ ॥ ततोऽत्र क्रियते राजा सद्यः कश्चिन्नरः परः । खखकार्याणि कुर्वन्तु लोकाः सर्वे तदाज्ञया ॥ २४ ॥ श्रुत्वैतद्वचनं राजा दयार्द्रहृदयोऽवदत् । मन्त्रिन् ! न युज्यते कर्तुं जिनधर्मविदामिदम् ॥ २५ ॥ यतः
आ सका आ कीडीआओ पाणीण दुश्वया पाणा । तो कह परमरणकरं ति जुज्जए मह इमं काउं ॥ १ ॥ अपि चअन्नसिं पाणीणं पाणताणकारणिक्कमुज्जया गरुआ । अम्हे कहं सजीवियकए अपरपाणिणं हणिमो ॥ १ ॥ इकं चिय इत्थ वयं निहिं जिणवरेहिं सधेहिं । तिविहेण पाणिरक्खणमविसेसा तस्स रक्खट्ठा ॥ २ ॥ इत्युक्ते भूभुजाऽवोचत्सुबुद्धिः सचिवो वचः । स्वामिंस्तत्क्रियते येनानर्थहानिर्वधस्तु न ॥ २६ ॥ शीतोऽग्निरितिवन्मत्रिन् ! कथमेतद्भवेदिह । आत्मरक्षा भवेदन्यप्राणिहिंसा च नो भवेत् ॥ २७ ॥ आत्मवत्सर्वजीवेषु कल्याणागमचिन्तनम् । तत्कदुःखजिहासा च धर्मबीजमनुत्तरम् ॥ २८ ॥ इत्युक्तं नृपतेः श्रुत्वा स मन्त्री पुनरब्रवीत् । सप्ताहं स्थाप्यते राज्ये धनदप्रतिमा प्रभो ! ॥ २९ ॥ एवं कृते समीचीनः प्रकारः प्राक्तनो भवेत् । स्वयं धर्मपरैः | स्थेयं युष्माभिः सप्तवासरी ॥ ३० ॥ धर्मानुभावतः खामिन्नापदां विलयो भवेत् । संपदश्च मनोऽभीष्टा भवन्त्यत्रैव