SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः धर्मपरीक्षा-देहिनाम् ॥ ३१ ॥ इति मत्रिवचः श्रुत्वा प्रीतो नैमित्तिको जगौ । मज्ज्ञानात्तावकी बुद्धिरधिका सचिवोत्तम !! ॥२ ॥३२॥ तथेत्यङ्गीकृते सर्वपर्षदा मत्रिणो गिरा । नृपोऽपि स्थापयामास श्रीदमूर्ति निजे पदे ॥ ३३ ॥ प्रत्याख्याय ततः सर्वसावधव्यावृति नृपः । सप्ताहं पौषधागारे पौषधव्रतवान् स्थितः॥ ३४ ॥ भूपतिर्दुष्प्रणीधानं मनगेवाग्वपुषां त्यजन् । धर्मध्यानसुधापानप्रीतात्मा पौषधव्रती ॥ ३५ ॥ यतिवद्यतनां कुर्वन् सर्वजीवेष्वहर्निशम् । चतुर्धाहार मुक पञ्चपरमेष्ठिस्मृति व्यधात् ॥ ३६ ॥ वासरेऽथ समायाते नैमित्तिकवरोदिते । उत्तराहो दुराराहो(धो)वातः प्रावकार्तित क्षणम् ॥ ३७॥ तद्योगादजनि व्योम्नि प्रचण्डो मेघडम्बरः । अजनिष्ट महावृष्टिगर्जितोर्जितदुस्सहा ॥ ३८॥ तदा च तस्य यक्षस्य नृपीभूतस्य मूर्द्धनि । मेघात्राकुर्वती विद्युदपतद्वज्रदण्डवत् ॥ ३९ ॥ तस्मिंश्च समये सम्यग निमित्तज्ञोपरि स्फुटम् । हर्षादन्तःपुरीलसखर्णवृष्टिरजायत ॥ ४० ॥ सुबुद्धिमत्रिणो बुद्धेरहो! कौशलमद्भुतम् । अहो ! सर्वज्ञधर्मस्य निस्सीमो महिमोदयः ॥ ४१ ॥ अहो ! राज्ञो महद्भाग्यभङ्गी संगीतवैभवा । एवं परस्परं जल्पन् राजलोकोऽमिलत्तदा ॥ ४२ ॥ उपसर्गे क्षयं प्रासे प्रीतात्मा पृथिवीपतिः । समाप्य पौषधं धर्मशालाया बहिराययौ ॥४३॥ ततो जयजयारावं कुर्वाणमंत्रिमण्डलैः । परीतो मज्जनागारे प्राप्य रत्नप्रभोजवलम् ॥४४॥ गन्धपुष्पोष्णशुद्धाम्बुपूरैः पुण्यवरैर्नृपः । कल्याणविधिना चके मज्जनं विनमज्जनः ॥ ४५ ॥ ततोऽभ्यर्च्य जिनाधीशं प्रकारैरष्टभिर्नृपः। पारणं निर्ममे राजसामन्तश्रेणिभिः समम् ॥ ४६॥ यतः SPASIASSAGISAUGAUS ॥२२॥
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy