________________
पात्रे त्यागी गुणे रागी भोगी परिजनैः समम् । शास्त्रे बोद्धा रणे योद्धा पुरुषः पञ्चलक्षणः ॥ १ ॥ ततः संसदमासीनं दिवस्पतिमिवोदितम् । प्रणेमुस्तं प्रजाः सर्वा नानाप्राभृतपाणयः ॥ ४७ ॥ सत्कृत्य खर्णदानेन तं नैमित्तिकपुङ्गवम् । राजा नरेश्वरीचक्रे पद्मिनीखण्डपत्तने ॥ ४८ ॥ आपद्वन्धुरयं यक्ष इत्यालोच्य नृपो हृदि । अचीकरन्मणिमयीं धनदप्रतिमां नवाम् ॥ ४९ ॥ महोत्सवमयं सौख्यमयं तन्नगरं तदा । सर्वमासीदसीमोद्यज्जिनधर्ममहोमयम् ॥ ५० ॥ सम्यग् धर्मोदयं वीक्ष्य ततः श्रीविजयो नृपः । तत्सेवारसिकखान्तः समभूत्प्रतिवासरम् ॥ ५१ ॥ यतः - धर्मादधिगतैश्वर्यः सेवते धर्ममेव यः । सत्यं शुभायतिर्भावी स कृतज्ञशिरोमणिः ॥ १ ॥
• क्रमेण गणभृद्भूत्वा स श्रीशान्तिजिनेशितुः । क्षपकश्रेणिमारुह्य जज्ञे सिद्धिवधूवरः ॥ ५२ ॥ इत्थं कुमारकनकोपममहतोक्तं सद्बोधसंयमदयागुणसाररूपम् । भव्याः ! भवार्तिशमनं शुभकर्मयोगादासाद्य सिद्धिसुखसंपदमाश्रयन्ति ॥ ५३ ॥ इति श्रीतपागच्छालङ्कार श्रीसोमसुन्दरसूरीश्वरशिष्य श्रीजिनमण्डनगणिनिर्मिते सम्यग्धर्मपरीक्षाशास्त्रे तृतीयगुणवर्णनो नाम चतुर्थः परिच्छेदः ॥ ४ ॥
अथ चतुर्थगुणखरूपमाह -
जिसुगुरुवंदनाई विजयपहाणो महन्तजणज्जुग्गो । कणगं रयणोवगयं जह तह धम्मो महफिलो ॥ १ ॥