Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 86
________________ * षष्ठः परिच्छेद % 25A5% धर्मपरीक्षा इन्द्रधर्मः ॥४८॥ सम्यग्दर्शनसंशुद्धो धर्मः शर्मसुरद्रुमः । द्विधोदितो जिनाधीशैः साश्रवश्च निराश्रवः ॥४९॥ तीर्थयात्रार्चनादानचैत्योद्धारादिकर्मसु । प्रवृत्तिः साश्रवो धर्मो नृसुरासुरसौख्यदः ॥५०॥ सर्वाक्षोपरमादेष सर्वालवनिरोधता । निराश्रवो भवेद्धर्मः शिवावधिसुखप्रदः ॥५१॥ अन्याङ्गिबोधिबीजाप्तिशासनोन्नतिहेतुतः । साथ वोऽपि भवेद्धर्मः कुकर्मदलनक्षमः॥५२॥प्रासादप्रतिमातीर्थयात्रासद्गुणगौरवम् । विवेकिना यथाशक्ति विधेयं निजहे तवे॥५३॥मत्रिणाऽनेन किं पुण्यं चक्रे प्राग्जन्मनि प्रभो! विज्ञप्तो देशनाप्रान्ते भूभृता गुरुरब्रवीत्॥५४॥ तथाहि8 पद्मापुयाँ सुदत्तोऽभूत् श्रेष्ठी शिष्टजनाग्रणीः । अनन्यनिजसौजन्यगुणेन भुवि विश्रुतः ॥ ५५ ॥ लघुकर्मतया तेन स्थविरजतिसंनिधौ । धर्मोऽन्यदाऽर्हता प्रोक्तः शुश्रवे श्रद्दधे पुनः ॥५६॥ सम्यग्धर्मो द्विधा ख्यातः शुद्धाशुद्धतया जिनः । शुद्धः शल्यत्रयातीतमनसो विधिपूर्वकः ॥ ५७॥ द्वितीयो राज्यऋद्ध्यर्थे परद्रोहविधित्सया । रजस्तमोम| यै वैः क्रियते च यथा तथा ॥ ५८ ॥ नित्यो नैमित्तिकश्चायं द्विधा सदर्शनोज्वलः । निश्चयानुष्ठितः पूर्वो यहच्छानुष्ठितः परः ॥ ५९॥ आद्यः सद्यः फलं दत्ते लोकोभयसुखावहम् । द्वितीयोऽपि यथाकालं फलदायी शरीरिणाम् ॥६०॥ श्रुत्वत्यसौ त्रिधा शुद्धं श्राद्धधर्म ततोऽग्रहीत् । विशेषात्प्रतिमापर्वपौषधादिमयः पुनः ॥ ६१ ॥ आराधयत्यसौ श्राद्धधर्म शुद्धं त्रिधानिशम् । त्रिसंध्यं पूजयन्नहत्प्रतिमाः पुण्यवस्तुभिः ॥ ६२ ॥ एकशः प्रत्यहं भोक्ता पात्रदानपुरस्सरम् । षड्विधावश्यकाचारनिर्मिती विधिनोद्यतः॥६३॥ युग्मम् ॥ अङ्गीकृतान्यदापर्वदिनेऽसौ पौषध %%% % %

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148