________________
*
षष्ठः परिच्छेद
%
25A5%
धर्मपरीक्षा इन्द्रधर्मः ॥४८॥ सम्यग्दर्शनसंशुद्धो धर्मः शर्मसुरद्रुमः । द्विधोदितो जिनाधीशैः साश्रवश्च निराश्रवः ॥४९॥
तीर्थयात्रार्चनादानचैत्योद्धारादिकर्मसु । प्रवृत्तिः साश्रवो धर्मो नृसुरासुरसौख्यदः ॥५०॥ सर्वाक्षोपरमादेष सर्वालवनिरोधता । निराश्रवो भवेद्धर्मः शिवावधिसुखप्रदः ॥५१॥ अन्याङ्गिबोधिबीजाप्तिशासनोन्नतिहेतुतः । साथ
वोऽपि भवेद्धर्मः कुकर्मदलनक्षमः॥५२॥प्रासादप्रतिमातीर्थयात्रासद्गुणगौरवम् । विवेकिना यथाशक्ति विधेयं निजहे
तवे॥५३॥मत्रिणाऽनेन किं पुण्यं चक्रे प्राग्जन्मनि प्रभो! विज्ञप्तो देशनाप्रान्ते भूभृता गुरुरब्रवीत्॥५४॥ तथाहि8 पद्मापुयाँ सुदत्तोऽभूत् श्रेष्ठी शिष्टजनाग्रणीः । अनन्यनिजसौजन्यगुणेन भुवि विश्रुतः ॥ ५५ ॥ लघुकर्मतया तेन
स्थविरजतिसंनिधौ । धर्मोऽन्यदाऽर्हता प्रोक्तः शुश्रवे श्रद्दधे पुनः ॥५६॥ सम्यग्धर्मो द्विधा ख्यातः शुद्धाशुद्धतया जिनः । शुद्धः शल्यत्रयातीतमनसो विधिपूर्वकः ॥ ५७॥ द्वितीयो राज्यऋद्ध्यर्थे परद्रोहविधित्सया । रजस्तमोम| यै वैः क्रियते च यथा तथा ॥ ५८ ॥ नित्यो नैमित्तिकश्चायं द्विधा सदर्शनोज्वलः । निश्चयानुष्ठितः पूर्वो यहच्छानुष्ठितः परः ॥ ५९॥ आद्यः सद्यः फलं दत्ते लोकोभयसुखावहम् । द्वितीयोऽपि यथाकालं फलदायी शरीरिणाम् ॥६०॥ श्रुत्वत्यसौ त्रिधा शुद्धं श्राद्धधर्म ततोऽग्रहीत् । विशेषात्प्रतिमापर्वपौषधादिमयः पुनः ॥ ६१ ॥ आराधयत्यसौ श्राद्धधर्म शुद्धं त्रिधानिशम् । त्रिसंध्यं पूजयन्नहत्प्रतिमाः पुण्यवस्तुभिः ॥ ६२ ॥ एकशः प्रत्यहं भोक्ता पात्रदानपुरस्सरम् । षड्विधावश्यकाचारनिर्मिती विधिनोद्यतः॥६३॥ युग्मम् ॥ अङ्गीकृतान्यदापर्वदिनेऽसौ पौषध
%%%
%
%