________________
केनाजितानि नयनानि मृगाङ्गनानां कोऽलङ्करोति रुचिराङ्गरुहान् मयूरान् । कश्चोत्पलेषु दलसञ्चयमादधाति को वा दधातु विनयं कुलजेषु पुंसु ॥ १ ॥
ततो मन्त्री नराधीशं स्नेहालिङ्गनपूर्वकम् । निवेश्य विष्टरे हैमे निजैश्वर्यमदर्शयत् ॥ ३६ ॥ राजाऽपि सचिवैश्वर्यलीलामालोक्य विस्मितः । अमंस्त परमं हेतुं धर्ममेवाखिलश्रियाम् ॥ ३७ ॥ ततोऽतिबहुमानेन महेन महताऽपि च। मत्रिराजं पुरीमध्ये राजा प्रावेशयत् स्वयम् ॥ ३८ ॥ खरूपं खर्मणिप्राप्तिप्रमुखं सकलं निजम् । न्यवेदि मत्रिणा राज्ञो धर्मस्य स्थिरताकृते ॥ ३९ ॥ मन्त्रिणः संपदं प्रेक्ष्य लोकोऽपि जगदद्भुताम् । धर्मो जयति नाधर्म इति मेने यथास्थितम् ॥ ४० ॥ प्रपूज्य बहुमानेन पितृवत्सुकृताधिकम् । मित्रानन्दं कृतानन्दं सचिवं मेदिनीपतिः ॥ ४१ ॥ प्रमाणं खपराभासि ज्ञानवद्वाधवर्जितम् । अकार्षीद्राजकार्येषु समग्रेषु सुधीरिव ॥ ४२ ॥ युग्मम् ॥ मत्रीन्द्रः पुनरासाद्य सर्वैश्वर्यमहाधुरम् । भवभोगविरक्तात्मा राजकार्याण्यचीकरत् ॥ ४३ ॥ एकासनस्थौ भूपालमत्रिणौ राजसंसदि । अन्यदा वनपालेन विज्ञप्तौ रचिताअलि ॥ ४४ ॥ चतुर्ज्ञानघरः श्रीमान् गुरुः श्रीगुणसागरः । अद्योद्याने समायासीदसीमतपसां निधिः ॥ ४५ ॥ श्रुत्वैतन्मुदितखान्तौ नृपामात्यो प्रजान्वितौ । तत्रागत्य रयादेव नमोऽकाष् मुनीश्वरम् ॥ ४६ ॥ शुश्रूषुकद्वयोरप्रे तयोर्मधुरया गिरा । ततोऽकार्षीगुरुर्धर्मदेशनां क्लेशनाशिनीम् ॥ ४७ ॥
रम्याणि हम्याणि मनोरमा रमा हस्त्यादयो राज्यविभूतयश्च । भवे भवे प्राणभृतां भवेयुः सुदुर्लभः किन्तु जिने -