________________
षष्ठः परिच्छेदः
धर्मपरीक्षा- उत्कटाच मटा जजुर्द्विपा अपि गलन्मदाः ॥२५॥ खहस्तलिखितश्लोकपत्रपाणिं जनं निजम् । प्रेषयामास भूभर्तुः
पार्थेऽसौ विशदाशयः ॥ २६ ॥ स पुमानगरस्यान्तर्गत्वा दिव्यधुतिः क्षणात् । पत्रं काञ्चनकुन्तेन मुमोच नृपतेः ॥ २९॥
पुरः ॥ २७ ॥ उन्मुद्रीकृत्य तत्पत्रं पाणिना पृथिवीपतिः। सभासमक्षं दृष्टात्मा वाचयामास तद्यथा ॥ २८ ॥ पुण्यासप्रौढसाम्राज्यो मित्रानन्दः समाययौ । विक्रमी यदसि माप! तत्महतु बहिर्भव ॥ २९ ॥ पुण्यप्रभावं भूयोऽपि विज्ञाय जगतोऽद्भुतम् । खपाणिना लिखित्वैवं श्लोकं प्रेषीत्स मत्रिणः॥३०॥ वरेण्यं पुण्यमेवात्र व्यवसायादपि भुवम् । पुण्यात्मनां प्रजायन्ते यहासा व्यवसायिनः ॥ ३१॥ यतः
सषं बलं धम्मबलं जिणाइ, सपा कला धम्मकला जिणाइ।
सधा कहा धम्मकहं जिणाइ, सघं सुहं मुत्तिसुहं जिणाइ ॥१॥ तेन श्लोकेन विज्ञाय राजानं विगतस्मयम् । मन्त्री न्यवारयत्सेनां पौरवर्गविमर्दनात् ॥ ३२॥ समनश्रेष्ठिसामन्तभटश्रेणियुतस्ततः । राजाऽगादंहिचारण खयं सचिवसंनिधौ ॥ ३३॥ वीक्ष्यागच्छन्तमुर्वीशं प्रीतात्मा सचिवेश्वरः।।
अभ्युत्तस्थौ यतो धर्ममूलं श्रीविनयो मतः ॥ ३४ ॥ खभावो यत्कुलीनानां महतां शाखिनामिव । सर्वाङ्गफलसंमापन्नो यन्नमन्त्यधिकाधिकम् ॥ ३५ ॥ यतः
ॐॐॐॐॐॐ