________________
ESSASARSA
त्वया गम्यं न लातव्यं धनादिकम् । कश्चिन्नानुचरो नेयः समं साहाय्यदायकः ॥१०॥ ततो नरेश्वरादेशात्साहसैकशिरोमणिः । जनमात्रः खयं भूत्वा चचालैकोऽथ धीसखः॥ ११॥ मत्रीन्द्रमनुगच्छन्तः खजनाः सेवकैः समम् । निवारिता नरेन्द्रेण कोपाकुलितचेतसा ॥ १२ ॥ असहायस्ततो मत्री ब्रजन् धर्मसमन्वितः । श्रान्तस्तृषातुरः प्रापन् मध्याह्ने काननावनिम् ॥ १३ ॥ इतस्ततो भ्रमंस्तत्र ददर्शासौ सरोवरम् । सुखादुरससंपूर्ण सत्काव्यं सुकवेरिव ॥१४॥ शुचिस्तत्र कृतस्नानः पीत्वा मत्रीश्वरः पयः। अर्हच्यानैकतानात्मा विश्रान्तः सरस्पालिनि ॥१५॥ इतश्चाकस्मिकः कश्चित्पुमान् दिव्यतनुद्युतिः। तमुवाच पुरः प्रादुर्भूय भूयस्तरोदयः ॥ १६ ॥ गृहाण खमणिं मत्रिनिमं दौर्गत्यनाशनम् । त्वया चायं मणिः सायं पूजनीयः सुपूजया ॥ १७ ॥ ततः प्रातर्मनोऽभीष्टं चतुरङ्गचमूयुतम् । सर्वाङ्गसुखसंपन्नं साम्राज्यं ते प्रदास्यति ॥ १८ ॥ इत्युक्त्वा तत्करे मुक्त्वा चिन्तारत्नं स्फुरत्प्रभम् । तिरोभूय क्षणादेव स जगाम पुमान् कचित् ॥ १९॥ ततोऽसौ विस्मितखान्तो विधिनाऽभ्यर्च्य तं मणिम् । मुक्तनिद्रोऽखिलां रात्रिं तद्ध्यानेनानयत्सुधीः ॥२०॥ मणिप्रभावतः प्रातः सेनया चतुरङ्गया । जयध्वनिभृता मन्त्री वृतो दध्यौ निजे हृदि ॥ २१ ॥ धर्मप्रभावं भूभर्तुर्दर्शयामि यथास्थितम् । निःशेषपौरवर्गस्य सत्पुण्यस्थिरताकृते ॥ २२ ॥ निखाननिखनैर्दिव्यैर्वाचालितदिगम्बरः। चमूसमूहं निर्माय मन्त्री प्रापत्पुरं प्रति ॥ २३॥ पर्यवेष्टि क्षणादेव तत्पुरं तेन सर्वतः। तन्निवासी जनः सर्वो जातो भूयो भयाकुलः ॥ २४ ॥ किंकर्तव्यतया मूढमना भुमानभूद्धशम् ।
।