SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा । षष्ठः परिच्छेद ॥२८॥ ॐॐॐARAKASH नरेन्द्रप्रजयोः कार्यमविरोधात्परस्परम् । कुर्वन्न कापि चक्रेऽसौ न्यायधर्मव्यतिक्रमम् ॥ ३॥ राजधर्मव्यवस्था दुष्टानां शासनं सृजन् । निःखदुर्बललोकानां करमुक्तिं व्यधादसौ ॥ ४ ॥ यतः__ अकरे करस्य कर्तुर्गासहस्रवधः स्मृतः । प्राचीनकरनिर्मुक्तो गवां कोटिफलं स्मृतम् ॥ १॥ संसद्यासीनयोभूभृन्मत्रिणोरन्यदाऽभवत् । एवं मनखिनोर्वादः पुण्योपक्रमगोचरः ॥५॥ अवोचत्सचिवं राजा प्रभुत्वोत्साहमेदुरः । पुण्यादपि गुरुमेनिन् ! व्यवसायः स्फुटं भवेत् ॥ ६॥ यतः व्यवसायवतः सर्व फलदायि प्रजायते । नहि प्रसुप्तस्य मुखे प्रविशन्ति फलान्यहो!॥१॥ नियोचितनृपानेककार्योपक्रमशालिनः । भुज्यन्तेऽत्र त्वया सर्वकामदुग्धाः श्रियोऽनिशम् ॥७॥ उवाच सचिवो राजन् ! विना सत्पुण्यसंपदाम् । कृतः सर्वाभिसारेण व्यवसायस्तृणायते ॥ ८॥ यतः नैवाकृतिः फलति नैव कुलं न शीलं विद्यापि नैव न वयो न कृतापि सेवा । पुण्यानि पूर्वतपसा परिसंचितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः॥१॥ उद्यम कुर्वतां पुंसां फलं पुण्यानुसारतः। समुद्रमथनालेभे हरिलक्ष्मी हरो विषम् ॥ २ ॥ प्राप्तव्यमेव लभते कृते महत्युपक्रमे । सर्वेऽझावयवा नित्यं भूष्यन्ते चिबुकं विना ॥३॥ राजाऽभाषत मत्रीशं यदि पुण्यं महत्तरम् । राजमुद्रां तदा मुक्त्वा याहि देशान्तरे कचित् ॥९॥ गृहेऽपि न ॥२८॥
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy